Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ३० अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे कुँवावालायां प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘मन की बात’-कार्यक्रमस्य १३७तमं संस्करणं श्रुतवान्। कार्यक्रमस्य अनन्तरं सः अवदत् यत् ‘मन की बात’-कार्यक्रमः देशवासिनः राष्ट्रनिर्माणे सक्रिय-सहभागितायै प्रेरयन् समाजे सकारात्मकपरिवर्तनं जनयन्तः जनान् अभिनवप्रयासांश्च राष्ट्रियं मञ्चं प्रदातुं प्रभावीमाध्यमः अभवत्।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणा कार्यक्रमे युवभ्यः मादकद्रव्येभ्यः दूरं स्थातुं तथा ‘नशामुक्त-युवा-विकसित-भारत’ इति सङ्कल्पं जनान्दोलनरूपेण परिणेतुं आह्वानं कृतम्। सः अवदत् यत् नशामुक्ताः युवान: एव सशक्तस्य विकसितस्य च भारतस्य दृढा आधारशिला सन्ति। प्रधानमन्त्रिणः अस्मिन् आह्वानेन युवसु मादकद्रव्याणां विरुद्धं जागरूकता वर्धिष्यते, स्वस्थायाः सकारात्मकायाः राष्ट्रनिर्माणाय समर्पितायाश्च युवशक्तेः नूतना ऊर्जा च प्राप्स्यते।
धामी अवदत् यत् प्रधानमन्त्रिणा भारतस्य गौरवशालिनः इतिहासस्य विरासतश्च नूतनवंशाय सरलतया रोचकतया च प्रापयितुं क्रियमाणानाम् अभिनव-प्रयासानामपि उल्लेखः कृतः। एतादृशाः प्रयासाः युवानः देशस्य समृद्धेन इतिहासेन सह संयोजयन्ति, तेषु संस्कृतेः, परम्परां राष्ट्रं च प्रति गौरवभावनां सुदृढां कुर्वन्ति।
सः अवदत् यत् ‘मन की बात’-कार्यक्रमस्य माध्यमेन प्रधानमन्त्री देशस्य विभिन्नेषु क्षेत्रेषु सामान्यनागरिकैः क्रियमाणानाम् असाधारणकार्याणां, नवाचाराणां जन-सहभागितायाः च प्रयासानां राष्ट्रियं परिचयं प्रददाति। अनेन अन्येभ्यः अपि स्वस्वक्षेत्रेषु सकारात्मकपरिवर्तनं कर्तुं राष्ट्रनिर्माणे योगदानं दातुं च प्रेरणा प्राप्यते।
मुख्यमन्त्रिणा प्रदेशवासिभ्यः, विशेषतः युवभ्यः, प्रधानमन्त्रिणः सन्देशान् जीवने आत्मसात् कृत्वा नशामुक्तस्य, स्वस्थस्य, सशक्तस्य विकसितस्य च भारतस्य निर्माणे सक्रियं योगदानं दातुम् आह्वानं कृतम्।
अस्मिन् अवसरे राज्यसभासदस्यः भाजपा-प्रदेशाध्यक्षश्च महेन्द्रभट्टः, मन्त्रिमण्डलस्य मन्त्री सतपालमहाराजः, गणेशजोशी, डॉ. धनसिंहरावतः, मदनकौशिकः, भरतचौधरी इत्यादयः अन्ये जनप्रतिनिधयश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan