अखिलभारतीयाखाडापरिषदः अध्यक्षः श्रीमहन्तः डॉ. रविन्द्रपुरी मोहनभागवतस्य वक्तव्यस्य प्रशंसाम् अकरोत्
हरिद्वारम्, ३० अगस्तमासः (हि.स.)। अखिलभारतीयाखाडापरिषदः मनसा-देवीमन्दिरन्यासस्य च अध्यक्षः श्रीमहन्तः डॉ. रविन्द्रपुरीमहाराजः रविवासरे अमेरिकादेशे राष्ट्रियस्वयंसेवकसङ्घस्य प्रमुखेण मोहनभागवतेन प्रदत्तस्य वक्तव्यस्य प्रशंसाम् अकरोत्। श्रीमहन्तः डॉ
श्री महंत रवींद्र पुरी फाइल फोटो


हरिद्वारम्, ३० अगस्तमासः (हि.स.)। अखिलभारतीयाखाडापरिषदः मनसा-देवीमन्दिरन्यासस्य च अध्यक्षः श्रीमहन्तः डॉ. रविन्द्रपुरीमहाराजः रविवासरे अमेरिकादेशे राष्ट्रियस्वयंसेवकसङ्घस्य प्रमुखेण मोहनभागवतेन प्रदत्तस्य वक्तव्यस्य प्रशंसाम् अकरोत्।

श्रीमहन्तः डॉ. रविन्द्रपुरीमहाराजः अवदत् यत् सङ्घप्रमुखेण मोहनभागवतेन मुसलमानानां विषये प्रदत्तं वक्तव्यं प्रशंसनीयम् अस्ति। सः अवदत् यत् सर्वे मुसलमानाः सनातनस्य विरोधिनः न सन्ति। एतादृशाः मुसलमानाः अस्माकं भ्रातरः सन्ति। बहवः मुसलमानाः सनातनधर्मम् अनुसरन्ति। अतः मुसलमानानां विरोधः उचितः नास्ति।

मोहनभागवतस्य मतमस्ति यत् पूजापद्धतिः भिन्ना भवितुम् अर्हति, किन्तु सर्वेषां मार्गः एक एव अस्ति। विवादं परित्यज्य सर्वैः ऐक्येन मिलित्वा निवसितव्यम्।

Hindusthan Samachar / Divya Ranjan