Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 30 अगस्तमासः (हि.स.)। बिल्केश्वरमहादेवमन्दिरे सवर्णसमाजेन रविवासरे यूजीसी-रोलबैकस्य मागं कृत्वा सभा आयोजिता। अस्यां सभायां सितम्बरमासस्य 6 दिनाङ्के बहादराबादे आयोज्यमानस्य विशालसम्मेलनस्य विषये रणनीतिः निर्धारिताऽभवत्।
सभां सम्बोधयन् शङ्कराचार्यपरिषदः अध्यक्षः स्वामी आनन्दस्वरूपः अवदत् यत् एतत् न कस्यचित् दलस्य आन्दोलनम् अस्ति, अपितु अधिकारस्य समानतायाश्च संघर्षः अस्ति। सः अवदत् यत् आन्दोलनाय राजनीतिकरूपं न दातव्यम्। एतत् अस्माकम् अधिकाराय, अस्माकं भविष्याय, देशस्य च भविष्याय अस्ति।
स्वामी आनन्दस्वरूपः अवदत् यत् स्वातन्त्र्यस्य 75 वर्षाणाम् अनन्तरमपि देशः जातीयबन्धनेषु बद्धः अस्ति। यदि देशं सुदृढं कर्तुम् इच्छामः तर्हि जातिवादस्य भित्तयः दुर्बलाः कर्तव्याः। सः अवदत् यत् संविधाने आरक्षणस्य निश्चितकालावधिः परिकल्पिता आसीत्, किन्तु दशकानाम् अनन्तरमपि अस्मिन् विषये गम्भीरा चर्चा न कृता।
सः डॉ. अम्बेडकरस्य उल्लेखं कृत्वा अवदत् यत् अधुना विचारः करणीयः यत् आरक्षणस्य आधारः जातिः न भूत्वा आर्थिकदौर्बल्यं वास्तविकावश्यकता च भवेत्। निर्धनः कस्यापि जातिः भवतु, तस्मै अवसरः प्राप्तव्यः। सः अवदत् यत् सवर्णसमाजः कस्यचित् अधिकारं हर्तुं न, अपितु समानावसरस्य न्यायपूर्णव्यवस्थायाश्च मागं करोति। स्वकीयां वाणीं शान्तिपूर्णतया लोकतान्त्रिकविधिना च प्रस्तुतव्यम्।
तेन सितम्बरमासस्य 6 दिनाङ्के बहादराबादे आयोज्यमाने सम्मेलने बहुसंख्यया उपस्थितिं दत्त्वा एकतां प्रदर्शयितुं आह्वानं कृतम्। सभायां ‘हर-हर महादेव’ इति जयघोषेण सह जनैः एकतायां स्थातुं सङ्कल्पः कृतः।
Hindusthan Samachar / Dheeraj Maithani