‘मन की बात’ मध्ये प्रधानमोदी उत्तम कुमाराय अददात् श्रद्धांजलिं, मुख्यमंत्रिणा प्रकटितः आभारः
कोलकाता, 30 अगस्तमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दुअधिकारी रविवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र सन्देशं प्रकाशितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘मन की बात’ इति कार्यक्रमे बङ्गभाषीयचलच्चित्रस्य महानायकाय उत्तमकुमाराय श्रद्
शुभेंदु अधिकारी


कोलकाता, 30 अगस्तमासः (हि.स.)।

पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दुअधिकारी रविवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र सन्देशं प्रकाशितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘मन की बात’ इति कार्यक्रमे बङ्गभाषीयचलच्चित्रस्य महानायकाय उत्तमकुमाराय श्रद्धाञ्जलिं समर्पितवान्। तदर्थं मुख्यमन्त्री प्रधानमन्त्रिणे आभारं व्यक्तवान्।

मुख्यमन्त्री अवदत् यत् सः स्वकार्यालयात् प्रधानमन्त्रिणः ‘मन की बात’ इति कार्यक्रमस्य नवीनतमं संस्करणं श्रुतवान्। सः उक्तवान् यत् भारतीयचलच्चित्रस्य बङ्गभाषीयचलच्चित्रस्य च महानायकः उत्तमकुमारः तस्य जन्मशताब्दीवर्षस्य अवसरे प्रधानमन्त्रिणा स्मृतः इति पश्चिमबङ्गस्य कृते गौरवस्य हर्षस्य च विषयः अस्ति। उत्तमकुमारस्य जन्मशताब्दी सितम्बरमासस्य तृतीये दिनाङ्के आयोज्यते।

शुभेन्दुअधिकारी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी उत्तमकुमारस्य अद्वितीयां चलचित्रकलाप्रतिभां, आकर्षणं च तस्य अमिटां कलात्मकपरम्परां च अत्यन्तं सुन्दररूपेण प्रतिपादितवान्। सः उक्तवान् यत् उत्तमकुमारस्य कालजयी अभिनयः अद्यापि बङ्गभाषीयचलच्चित्रस्य सांस्कृतिकपरिचयं परिभाषयति। तस्य अभिनयः विश्वस्य सर्वत्र वर्तमानानां नवपीढीयकथाकाराणां चलचित्रप्रेमिणां च प्रेरणास्रोतः भवति।

मुख्यमन्त्री पश्चिमबङ्गस्य जनतानां पक्षतः प्रधानमन्त्रिणे नरेन्द्रमोदिने आभारं व्यक्तवान्। सः अवदत् यत् प्रधानमन्त्रिणा राष्ट्रियमञ्चे बङ्गप्रदेशस्य प्रियस्य महानायकस्य उत्तमकुमारस्य अमरकलात्मकपरम्परायाः सम्मानः स्मरणं च कृतम्।

Hindusthan Samachar / Dheeraj Maithani