मोदीमहोदयस्य जन्मदिवसात् सेवासङ्कल्पाभियानस्य शुभारम्भः, भाजपादलेन गृहं गृहं प्रापयिष्यते सेवाकार्यम्
विकसितभारतेन सह सेवाकार्याण्यपि अग्रे नयन्तु : धामी सेवा भाजपादलस्य मूलमन्त्रम् : चहल: देहरादूनम्, ३० अगस्तमासः (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः जन्मदिवसात् प्रारभ्यमाणं राष्ट्रव्यापिसेवा-सङ्कल्पाभियानम् उत्तराखण्डे गृहं गृहं प्रापयितुं भा
कुआंवाला स्थित निजी प्रतिष्ठान में भाजपा की ओ से आयोजित कार्यशाला में मुख्यमंत्री पुष्कर सिंह धामी सहित अन्य पार्टी पदाधिकारी।


विकसितभारतेन सह सेवाकार्याण्यपि अग्रे नयन्तु : धामी

सेवा भाजपादलस्य मूलमन्त्रम् : चहल:

देहरादूनम्, ३० अगस्तमासः (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः जन्मदिवसात् प्रारभ्यमाणं राष्ट्रव्यापिसेवा-सङ्कल्पाभियानम् उत्तराखण्डे गृहं गृहं प्रापयितुं भाजपादलस्य प्रदेशस्तरीय-कार्यशालायाम् आह्वानं कृतम्। रविवासरे हरिद्वारमार्गे कुआँवालास्थिते निज-प्रतिष्ठाने आयोजितायां कार्यशालायां मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् विकसितभारतस्य निर्माणेन सह सेवाकार्याणाम् अपि विस्ताराय प्रधानमन्त्रीमोदिनः जन्मदिवसात् श्रेष्ठः अवसरः अन्यः न भवितुम् अर्हति।

मुख्यमन्त्री धामी अवदत् यत् प्रधानमन्त्रीमोदिना स्वजीवनस्य प्रत्येकं क्षणः शरीरस्य च प्रत्येकं कणः राष्ट्राय समर्पितः अस्ति। सः अवदत् यत् प्रधानमन्त्रीमोदिनः नेतृत्वे विकसित-भारतस्य स्वप्नं साकारं भवद् दृश्यते, इति देशस्य सौभाग्यम् अस्ति।

सः अवदत् यत् प्रधानमन्त्रिणः नेतृत्वस्य सर्वाधिकं महत्त्वपूर्णा उपलब्धिः समाजस्य अन्तिमजनस्य जीवने सकारात्मक-परिवर्तनस्य आनयनम् अस्ति। निर्धनानां कल्याणे, महिलासशक्तीकरणे, कृषकाणां सम्माने, युवानां च अवसरप्रदाने व्यापकं कार्यं कृतम् अस्ति। प्रधानमन्त्रिणः प्रत्येकस्मिन् निर्णयेषु देशहितं सर्वोपरि अभवत्, अत एव भाजपादलेन तस्य जन्मदिवसः सेवाकार्यक्रमैः आयोज्यते। मुख्यमन्त्री अवदत् यत् विकसितभारतस्य निर्माणेन सह सर्वैः कार्यकर्तृभिः सेवाकार्याण्यपि अग्रे नेतव्यानि। अस्य कृते प्रधानमन्त्रिणः जन्मदिवसः सर्वश्रेष्ठः अवसरः अस्ति।

मुख्यमन्त्री समसामयिकानां राजनैतिक-घटनाक्रमाणाम् उल्लेखं कुर्वन् विपक्षस्यापि आलोचनां कृतवान्। सः अवदत् यत् तुष्टीकरणस्य राजनीतेः कारणेन विपक्षिदलाय वन्देमातरम्-गीतस्य गायने आपत्तिः अस्ति। राष्ट्रगीतं वन्देमातरम् देशस्य आनस्य बानस्य शानस्य च प्रतीकम् अस्ति तथा च देशः तत् सम्मानपूर्वकं स्वाभिमानेन च गास्यति। सः अवदत् यत् उत्तराखण्डः देवभूमिः अस्ति, अत्र भारतमातुः स्तुतिः न भविष्यति चेत् कुत्र भविष्यति?

मुख्यमन्त्री काङ्ग्रेसनेता राहुलगान्धिन-मपि लक्ष्यीकृत्य अवदत् यत् काङ्ग्रेसस्य युवराजः देहरादूनम् आगतवान् तथा युवानां रोजगारस्य अनुकरणकारयितु: च विषये बहूनि वचनानि उक्तवान्, किन्तु तेषु शतप्रतिशतं मिथ्या आसीत्। सः अवदत् यत् उत्तराखण्डे ३४ सहस्राधिकेभ्यः युवभ्यः शासकीयसेवा प्राप्ता अस्ति। ये नकलमाफियायाः उल्लेखं कुर्वन्ति, ते एतदपि कथयेयुः यत् पूर्वसर्वकारेषु पोषिताः बहवः अद्य कारागारे सन्ति।

हल्द्वानीघटनायाः विषये अपि मुख्यमन्त्रिण: राहुलगान्धिनः काङ्ग्रेसा-ध्यक्षस्य मल्लिकार्जुनखरगे इत्यस्य च मिथ्याप्रचारस्य आरोपं कृतवान्। सः अवदत् यत् मन्दिरपरिसरे कथितरूपेण मल-प्रसारणस्य घोषणाकरणस्य च विषये विपक्षः किमपि न वदति, किन्तु सनातनं विभक्तुं प्रयतमानां मिथ्यां वक्तुं तु न विस्मरति।

अभियानस्य क्षेत्रीयसंयोजकः कुलदीप-चहलः अवदत् यत् प्रधानमन्त्रीमोदिना स्वजीवनेन कार्यशैल्या च स्थापितं यत् सत्ता शक्तिः न, अपि तु सेवायाः माध्यमम् अस्ति। प्रदेशभाजपाध्यक्षः महेन्द्रभट्टः केन्द्रीयनेतृत्वं प्रति विश्वासं प्रदत्तवान् यत् सेवायाः अस्मिन् अभियानेऽपि उत्तराखण्ड-भाजपासङ्गठनं देशे अग्रणी भविष्यति। राज्ये अभियानस्य शुभारम्भः मुख्यमन्त्री-धामिनः जन्मदिवसे १६ सेप्टेम्बरदिने भविष्यति, देशव्यापिरूपेण च प्रधान-मन्त्रिणः जन्मदिवसात् १७ सेप्टेम्बरदिने प्रारभ्य १७ अक्टोबरपर्यन्तं चलिष्यति। अस्मिन् काले विविधाः सेवाकार्यक्रमाः आयोजयिष्यन्ते।

अभियानस्य क्षेत्रीयसंयोजकः कुलदीप-चहलः अवदत् यत् प्रधानमन्त्रीमोदिना स्वजीवनचर्यया व्यवहारेण च सिद्धं कृतम् अस्ति यत् सत्ता शक्तिः न, अपि तु सेवायाः माध्यमम् अस्ति। अस्यैव भावनायाः अनुरूपं भाजपासङ्गठनेन तस्य जन्मदिवसः सेवामाध्यमेन आयोजयितुं निर्णयः कृतः।

सः कार्यकर्तॄन् आहूतवान् यत् सेवासङ्कल्पाभियानस्य कार्यक्रमाः गृहं गृहं प्राप्यन्ताम् तथा जनजनस्य जीवने सकारात्मकपरिवर्तनम् आनेतुं प्रयत्नः क्रियताम्। सः अवदत् यत् प्रधानमन्त्री-मोदिनः नेतृत्वे नवभारतं विकसितभारतं च आकारं प्राप्नोति तथा मुख्यमन्त्रीधामिनः नेतृत्वे उत्तराखण्डोऽपि तीव्रतया विकासस्य दिशि अग्रे गच्छति।

चहलः अवदत् यत् उत्तराखण्डभाजपा-सङ्गठनं राष्ट्रियस्तरे स्वकार्यदक्षतायै प्रसिद्धम् अस्ति। सः विश्वासं प्रकटितवान् यत् सेवासङ्कल्पाभियानं प्रदेशे जनजनं प्रति सकारात्मकं सन्देशं प्रापयिष्यति।

सेवासङ्कल्पेन गृहं गृहं गच्छन्तु : भट्टः

प्रदेशाध्यक्षः महेन्द्रभट्टः अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे सञ्चालित-सर्वकारस्य २५ वर्षाणि निर्धनानां चिन्तायै कल्याणाय च समर्पितानि अभवन्। सः अवदत् यत् प्रधानमन्त्रिणा युवसु आत्मविश्वासस्य निर्माणाय, महिलानां सशक्तीकरणाय, निर्धनानां स्वावलम्बनाय च महत्त्वपूर्णं कार्यं कृतम् अस्ति। भट्टः अवदत् यत् श्रेष्ठतमः उत्सवः सेवायाः उत्सवः भवति। अतः कार्यकर्तारः सेवासङ्कल्पं स्वीकृत्य अभियानं प्रभावी कुर्वन्तु तथा प्रधानमन्त्रिणः जन्मदिवसं जनानां मध्ये सेवाकार्याणि कुर्वन्तः आयोजयन्तु।

प्रधानमन्त्रिण: नेतृत्वे साकारं भवति विकसितभारतम् : टम्टा

केन्द्रीयः राज्यमन्त्री अजयटम्टाः अवदत् यत् देशः यस्य विकासस्य वातावरणस्य च स्वप्नं पश्यति स्म, तत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे साकारं भवद् दृश्यते। राष्ट्रप्रथमस्य भावनया परिपूर्णस्य प्रधानमन्त्रिणः मोदिनः २५ वर्षाणां सार्वजनिकजीवनं सेवायै समर्पितम् अस्ति। सः अवदत् यत् पूर्वसर्वकारैः निर्धनतां दूरीकर्तुं घोषणाः कृताः, किन्तु प्रधानमन्त्रीमोदिना निर्धनतां देशात् दूरीकर्तुं दृढा: प्रयत्नाः कृताः।

प्रदेशमहामन्त्री तथा अभियानस्य प्रदेशसंयोजकः कुन्दनपरिहारः मासपर्यन्तं चलिष्यमाणस्य अभियानस्य विस्तृत-रूपरेखां पीपीटी-माध्यमेन प्रस्तुतवान्। अभियानस्य अन्तर्गतं प्रदेशे १३ प्रमुखकार्यक्रमाः आयोजयिष्यन्ते। तेषु आशीर्वादस्य दीपः, २५ कोटिबालकानां स्वप्नानां भारतम्, नमोसेवागाथा, आङ्गणस्य उत्सवः, परिवर्तनस्य कथा, विकसितभारतसङ्कल्पयात्रा, सेवा-ज्योतियात्रा, सेवा मम योगदानम्, सेवासेतुअभियानम्, राष्ट्ररङ्गोली, राष्ट्रिय-नवाचार-समस्या इत्यादयः कार्यक्रमाः सम्मिलिताः सन्ति।

कार्यशालायां मन्त्रिमण्डलस्य मन्त्री डॉ. धनसिंहरावतः, सतपालमहाराजः, मदन-कौशिकः, गणेशजोशी, भरतचौधरी, विधायकः विनोदचमौली, सहदेवपुंडीरः, बृजभूषणगैरोलाः, प्रेमचन्दअग्रवालः, आदेशचौहानः, मोहनबिष्टः, महन्तः दिलीपरावतः, प्रदेशमहामन्त्री तरुणबंसलः, दीप्तिरावत्, अभियानस्य सहसंयोजकः नलिनभट्टः इत्येतै: सह प्रदेशपदाधिकारिणः, जनपदाध्यक्षाः, जनपदप्रभारिणः, सह-प्रभारिणः तथा प्रदेश-जनपदस्तरीय-अभियानदलस्य पदाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan