६.५ लक्षाधिकाभ्यः महिलाभ्यः निःशुल्का राज्यपरिवहनबसयात्रायाः सुविधा प्राप्स्यते
महिलानां स्वरोज़गाराय न्यून-ऋणस्य सीमा वर्धयित्वा २.५० लक्षरूप्यकाणि भविष्यति, देहरादूने चालयिष्यन्ते १० पिङ्क्-ई-बसयानानि देहरादूनम्, ३० अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामिनः ६० वर्षाधिकवयस्काभ्यः महिलाभ्यः उत्तरा-खण्डराज्यपरिवहनस्य ब
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


महिलानां स्वरोज़गाराय न्यून-ऋणस्य सीमा वर्धयित्वा २.५० लक्षरूप्यकाणि भविष्यति, देहरादूने चालयिष्यन्ते १० पिङ्क्-ई-बसयानानि

देहरादूनम्, ३० अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामिनः ६० वर्षाधिकवयस्काभ्यः महिलाभ्यः उत्तरा-खण्डराज्यपरिवहनस्य बसयानेषु निःशुल्कयात्रासुविधां प्रदातुं घोषणया प्रदेशस्य षड्-अर्धलक्षाधिकाः महिलाः लाभान्विताः भविष्यन्ति। महिलानां सुरक्षां सुविधां आर्थिकसशक्तीकरणं च प्रोत्साहयितुं सर्वकारेण निःशुल्क-परिवहनेन सह पिङ्क्-ई-बससेवायाः महिलास्वरोज़गारयोजनानां च प्राथमिकता प्रदत्ता अस्ति।

मुख्यमन्त्री धामी रक्षाबन्धनपर्वणः अवसरे घोषितवान् यत् प्रदेशे ६० वर्षाधिकवयस्का काऽपि महिला उत्तराखण्डराज्यपरिवहनस्य बसयानेषु यात्रायै शुल्कं न दास्यति। अस्याः सुविधायाः विशेषतः पर्वतीयक्षेत्रेषु ग्रामीणक्षेत्रेषु च निवसन्तीनां महिलानां लाभः भविष्यति इति अपेक्षा अस्ति।

मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् उत्तराखण्डस्य मातृशक्तिः सर्वदा प्रदेशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति। सर्वकारः सर्वासां वयसां महिलानां आर्थिकरूपेण सामाजिकरूपेण च सशक्तीकरणाय प्रयत्नं करोति। तेन आशा प्रकटिता यत् निःशुल्कराज्य-परिवहनयात्रया पिङ्क्-ई-बससेवया च महिलाः सार्वजनिक-परिवहनस्य अधिका-धिकं लाभं स्वीकर्तुं शक्ष्यन्ति।

नगरीयक्षेत्रेषु महिलाभ्यः सुरक्षितं सुखदं च सार्वजनिकपरिवहनं प्रदातुं प्रधानमन्त्री-ई-बससेवायाः अन्तर्गतं देहरादूने १० पिङ्क-ई-बसयानानि महिलाभ्यः समर्पयितुं घोषणाऽपि कृता अस्ति। अनन्तरं अस्याः सेवायाः विस्तारः प्रदेशस्य अन्येषु क्षेत्रेष्वपि करिष्यते।

सर्वकारस्य अनुसारं लखपतिदीदी-योजनायाः अन्तर्गतं स्वसहायतासमूहेभ्यः सम्बद्धानां त्रिलक्षाधिकानां महिलानां वार्षिकम् आयम् एकलक्षरूप्यकेभ्यः अधिकं जातम् अस्ति। अधुना महिलास्वरोज़गारयोजनायाः अन्तर्गतं न्यून-धनागारऋणस्य सीमा द्विलक्ष-रूप्यकेभ्यः वर्धयित्वा २.५० लक्षरूप्यकाणि कर्तुं घोषणाऽपि कृता अस्ति।

अनेन महिलाः स्वव्यवसायस्य आरम्भं कर्तुं शक्नुवन्ति, वर्तमानस्वरोज़गारस्य विस्ताराय अधिकं धनं सङ्ग्रहीतुं च शक्नुवन्ति। सर्वकारः एकलमहिला-स्वरोज़गारयोजनायाः माध्यमेन परिवारस्य सम्पूर्णं दायित्वम् एकाकिनी वहन्तीनां महिलानाम् अपि स्वरोज़गारस्य अवसरान् प्रदातुं विशेषं बलं ददाति।

महिलासशक्तीकरणस्य अन्तर्गतं राज्य-सर्वकारेण शासकीयसेवासु महिलाभ्यः ३० प्रतिशतं आरक्षणं प्रदत्तम् अस्ति। सर्वकारस्य कथनानुसारं अनेन शासकीयसेवासु महिलानां प्रतिनिधित्वं वर्धितम् अस्ति। महिलानां सुविधां गरिमां च ध्यानं कृत्वा प्रदेशस्य प्रमुखेषु सार्वजनिकस्थलेषु आधुनिका: उच्च-प्रौद्योगिकीयुक्ता: शौचालया: निर्मातुं घोषणाऽपि कृता अस्ति।

Hindusthan Samachar / Divya Ranjan