Enter your Email Address to subscribe to our newsletters


सपाध्यक्षः एसटीएफ्-इत्येतत् ‘स्वजातीय-यातनादलम्’ इति उक्तवान्
भाजपा मम विरुद्धम् एआई-अभियानं चालयति, श्वः आरभ्स्यते सपायाः प्रचाराभियानम्
लखनऊम्, ३१ अगस्तमासः (हि.स.)। समाजवादीपार्टी इत्यस्य राष्ट्रियाध्यक्षः पूर्वमुख्यमन्त्री च अखिलेशयादवः सोमवासरे प्रदेशस्य विधिव्यवस्थां, आरक्षक-एनकाउंटर इत्येते मतदातृसूचीं च आधृत्य योगीसर्वकारं प्रति तीव्रं प्रहारं कृतवान्। सः आरोपितवान् यत् भाजपासर्वकारस्य शासनकाले आरक्षक-कार्यवाही इति नाम्ना सर्वाधिकं पृष।ठवर्गीयाः, दलिताः अल्पसङ्ख्यकाः च, अर्थात् पीडीए-वर्गस्य जनाः लक्ष्यीकृताः भवन्ति। अखिलेशः अवदत् यत् प्रदेशे सपासर्वकारस्य गठनं भवति चेत् अद्यावधि सम्पन्नानां सर्वेषां एनकाउंटरप्रकरणानाम् अन्वेषणं कारयिष्यते।
अखिलेशयादवः राजधानीलखनऊस्थे सपामुख्यालये पत्रकारान् सम्बोधयन् एतद् अवदत्। सः शामलीनगरे सोमवासरे प्रातः हरियाणवीसङ्गीतकारस्य अङ्कित-बालियानस्य हत्यायाः प्रकरणे द्वयोः आरोपितयोः मध्ये मृत्योः घटनामपि उल्लिखितवान्। सः प्रदेशे प्रचलितासु आरक्षक-कार्यवाहीषु प्रश्नान् उत्थाप्य ताः अनुचिताः इति कथितवान् तथा च सर्वकारस्य विधिव्यवस्थां प्रति प्रहारं कृतवान्।
‘एसटीएफ्’ इत्यस्य अर्थः ‘स्वजातीय-यातनादलम्’
अखिलेशयादवः मुख्यमन्त्रिणं योगी आदित्यनाथं प्रति लक्ष्यं साधयन् स्पेशल टास्क फोर्स विषये अपि तीक्ष्णां टिप्पणीं कृतवान्। सः अवदत् यत् मुख्यमन्त्रिणः एसटीएफ् इत्यस्य अर्थः ‘स्वजातीय-यातनादलम्’ अस्ति। अखिलेशः आरोपितवान् यत् मुख्यमन्त्रिणः एषा टोली पीडीए-वर्गस्य जनान् लक्ष्यं करोति। सः अवदत् यत् प्रदेशे विधिव्यवस्थायाः नाम्ना क्रियमाणायाः आरक्षक-कार्यवाह्याः निष्पक्षतायां प्रश्नाः उत्पद्यन्ते। सपा-सर्वकारस्य गठनं भवति चेत् एतेषां सर्वेषां प्रकरणानाम् अन्वेषणं कारयित्वा दोषिभ्यः विरुद्धं कार्यवाही करिष्यते।
‘मम विरुद्धं धनं व्ययित्वा एआई-अभियानं चालयति भाजपा’
सपाध्यक्षः भाजपायाः उपरि तस्य विरुद्धम् आर्टिफिशियल् इण्टेलिजेन्स इत्यस्य माध्यमेन प्रचाराभियानं चालयितुम् आरोपं कृतवान्। सः अवदत् यत् तस्य विरुद्धम् एआई-माध्यमेन दृश्यचित्राणि निर्मीयन्ते तथा च तदर्थं धनं व्यय्यते। अखिलेशः अवदत्— “यदि एआई-माध्यमेन क्रीडां करिष्यथ, तर्हि तस्य उत्तरम् अहमपि दास्यामि।” सः घोषणां कृतवान् यत् सपायाः निर्वाचनप्रचाराभियानं मङ्गलवासरात् आरभ्यते।
मतदातृसूच्यां दोषस्यापि आरोपः
अखिलेशयादवः मतदातृसूचीं प्रति अपि भाजपायाः उपरि गम्भीरम् आरोपं कृतवान्। सः अवदत् यत् भाजपा बहिःप्रदेशेभ्यः आगतानां जनानां नामानि मतदातृसूच्यां समावेशयति। सः उक्तवान् यत् प्रदेशे मतदातृसूच्याः स्तरे दोषाः क्रियन्ते तथा च निर्वाचनं प्रभावितुं प्रयासः क्रियते। सः प्रदेशसर्वकारस्य उपरि भ्रष्टाचारस्य आरोपं कुर्वन् अवदत् यत् उत्तरप्रदेशः विक्रीयते। सः अवदत् यत् एतादृशी भ्रष्टसर्वकारः प्रदेशे कदापि न आगता।
पत्रकारवार्तायाः समये सपायाः प्रदेशाध्यक्षः श्यामलालपालः, वरिष्ठनेता शिवपाल-सिंहयादवः, राजेन्द्रचौधरी इत्यादयः दलस्य अनेकाः वरिष्ठनेतारः, पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan