Enter your Email Address to subscribe to our newsletters

लखनऊ, ३१ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालः भारतीय-रेडक्रॉस-सोसाइटी इत्यस्या: उत्तरप्रदेश-राज्यशाखायाः अध्यक्षः च आनन्दीबेनपटेलः अध्यक्षतायां सोमवासरे लखनऊनगरे जनभवने भारतीय-रेडक्रॉस-सोसाइटी इत्यस्या: वार्षिक-सामान्यसभा सम्पन्ना अभवत्।
सभायां भारतीय-रेडक्रॉस-सोसाइटी इत्यस्या: उत्तरप्रदेश-राज्यशाखया प्रदेशस्य विभिन्नेषु जनपदेषु सञ्चालितानां सामाजिकानां मानवीयगतिविधीनां च समीक्षा कृता तथा अग्रिमवर्षस्य कार्ययोजनानां कार्यक्रमाणां च विषये विचारविमर्शः कृतः। सभायाः प्रमुखोद्देश्यं रेडक्रॉस-सोसाइटी इत्यस्या: सेवाः अधिकं प्रभावशालिनी जनोन्मुखी च कृत्वा स्वास्थ्यस्य, आपद्व्यवस्थापनस्य, आवश्यकताग्रस्तेभ्यः जनेभ्यः प्रदीयमानायाः मानवीयसहायतायाः च सुदृढीकरणम् आसीत्।
सभां सम्बोधयन्ती राज्यपालः अवदत् यत् भारतीय-रेडक्रॉस-सोसाइटी इत्यस्या: स्वस्य स्थापना-उद्देश्यानाम् अनुरूपं सेवा, स्वास्थ्यं, स्वच्छता, पर्यावरणसंरक्षणम्, आपद्व्यवस्थापनं तथा समाजस्य वञ्चितवर्गाणां कल्याणं च प्रति व्यापकस्तरे कार्यं करणीयम्। सा अवदत् यत् सोसाइट्याः गतिविधीनां अधिकं गतिदाने आवश्यकता अस्ति। कस्मिन्नपि आपत्काले अथवा आवश्यकतायां यथा सेनायाः सैनिकाः समाजस्य साहाय्यार्थं तत्पराः भवन्ति, तथैव सोसाइटी इत्यस्या: विशिष्ट: परिचय: भवेत्, येन जनाः तां सेवायै मानवीयसहायतायै च विश्वसनीयां संस्थां मन्येरन्।
राज्यपालः पर्यावरणसंरक्षणे स्वच्छतायां च विशेषं बलं दत्त्वा निर्देशान् दत्तवती यत् प्रत्येकस्मिन् जनपदे अधिकाधिकाः वृक्षारोपणकार्यक्रमाः आयोजनीयाः तथा तदर्थं स्थानानि च चिह्नितव्यानि। सा प्रत्येकस्मिन् जनपदे तादृशानि स्थानानि अपि चिह्नितुं निर्दिष्टवती, यत्र स्वच्छताभियानं सञ्चाल्य तानि स्वच्छानि सुन्दराणि च कर्तुं शक्येरन्। सा सार्वजनिकस्थानानां स्वच्छतां जनसहभागितया सम्बद्धां कर्तुं तथा जनानां मनसि स्वच्छतायाः प्रति उत्तरदायित्वभावनां विकसितुं च बलं दत्तवती।
स्वस्य कानपुरयात्रायाः समये रेलयात्रायाः उल्लेखं कुर्वती राज्यपालः अवदत् यत् तया रेलस्थानकेषु मलिनता दृष्टा। ततः जनभवने कार्यरतेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च नगरनिगमस्य सहयोगेन स्वच्छताभियानं सञ्चालितम्, यस्मिन् प्रायः ४० टनपरिमितं कूडा एकत्रितम्। एतादृशैः कार्यैः बालकेषु युवकेषु च स्वच्छतायाः सेवायाश्च संस्कारः अपि विकसितुं शक्यते। सा सार्वजनिक-स्थानानां स्वच्छतां सामूहिकदायित्वं कर्तुं बलं दत्तवती।
राज्यपालः योगस्य जनजनपर्यन्तं प्रसारणस्य आवश्यकतायाम् अपि बलं दत्तवती। सा प्रधानमन्त्रिणा नरेन्द्रमोदिना ३० अगस्तमासे २०२६ तमे वर्षे उज्बेकिस्तानस्य राजधानी ताश्कन्दनगरे योगफेडरेशन-ऑफ्-उज्बेकिस्तान-संस्थया आयोजिते विशेषयोगसत्रे सहभागितायाः उल्लेखं कुर्वती अवदत् यत् तत्र उज्बेकिस्तानस्य योगसाधकैः योगाभ्यासः कृतः तथा प्रधानमन्त्रिणा स्वयं तेषां योगासनानि दृष्ट्वा तेषां प्रशंसा कृता। सा अवदत् यत् अस्माकं कृते गौरवस्य विषयः अस्ति यत् अद्य सम्पूर्णं विश्वं भारतात् योगं शिक्षते तथा तस्य अनुसरणं करोति। भारतस्य प्राचीनयोगपरम्परा विश्वाय स्वस्थजीवनस्य मार्गं दर्शयति।
सा रेडक्रॉस-सोसाइटी इत्यस्या: पदाधिकारिभ्यः सदस्येभ्यश्च निर्देशं दत्तवती यत् ते स्वपरिसरे स्थितेषु आङ्गनवाडीकेंद्रेषु प्राथमिकविद्यालयेषु च गत्वा तत्र बालकेभ्यः योगं शिक्षयन्तु। सा जनभवने सञ्चालितस्य आदर्श-माध्यमिकविद्यालयस्य उदाहरणं दत्त्वा अवदत् यत् जनभवने कार्यरताः अधिकारिणः कर्मचारीणश्च तत्र बालकेभ्यः योगं शिक्षयन्ति। एतादृश: प्रयत्न: प्रदेशस्य अन्येषु विद्यालयेष्वपि करणीया।
राज्यपालः वञ्चितानां आवश्यकता-ग्रस्तपरिवाराणां च बालकान् शिक्षया सह संयोजयितुं विशेषं बलं दत्त्वा अवदत् यत् एतादृशान् परिवारान् चिह्नित्वा तेषां गृहेषु गत्वा बालकानां विद्यालयेषु नामाङ्कनं सुनिश्चितं कुर्युः। अस्य कृते अभियानं सञ्चालनीयम् तथा एतदपि निरीक्षणीयं यत् बालकाः नियमितरूपेण विद्यालयं गच्छन्ति वा न वा। सा अवदत् यत् केवलं नामाङ्कनं पर्याप्तं नास्ति, अपितु बालकानां नियमितोपस्थितेः शिक्षायाः निरन्तरतायाश्च सुनिश्चितीकरणम् अपि आवश्यकम् अस्ति।
/ अंशु गुप्ता