Enter your Email Address to subscribe to our newsletters

- जिल्लायाः सीमातः सरयूसेतुं यावत् द्वादशस्थानेषु कार्यकर्तृभिः कृतम् अभिनंदनम्।
अयोध्या, 31 अगस्तमासः (हि.स.)। भाजपायाः राष्ट्रियमहामन्त्रिपदस्य दायित्वं प्राप्त्यानन्तरं प्रथमवारम् अयोध्यां प्राप्तस्य हरीशद्विवेदी-महोदयस्य जनपदसीमा रानीमऊतः सरयूसेतुपर्यन्तं स्थले स्थले भव्यं स्वागतं कृतम्। शङ्खनादस्य, घण्टाघड़ियालस्य ध्वनेः, वैदिकमन्त्राणां चोच्चारणस्य मध्ये कार्यकर्तृभिः पुष्पवर्षणं कृत्वा तस्य अभिनन्दनं कृतम्। स्वागतसमये भाजपाकार्यकर्तृषु महत् उत्साहं जोशं च दृष्टम्। स्वागतस्थलेषु निर्मिताः भगवद्वर्णीयाः मञ्चाः भृशं सुसज्जिताः आसन्। सर्वेषु स्वागतस्थलेषु कार्यकर्तृभिः बुलडोजरद्वारा पुष्पवर्षणं कृत्वा तस्य अभिनन्दनं कृतम्।
अस्मिन् अवसरे राष्ट्रियमहामन्त्री उक्तवान् यत् अयोध्यया सह तस्य आत्मीयः भावनात्मकश्च सम्बन्धः अस्ति। राष्ट्रियनेतृत्वेन तस्मै या दायित्वपूर्णा जिम्मेदारी प्रदत्ता अस्ति, तां पूर्णनिष्ठया समर्पणभावेन च निर्वोढुं सः प्रयासं करिष्यति। कार्यकर्तॄणाम् उत्साहः स्नेहश्च तस्मै नवीनाम् ऊर्जां प्रददाति। भाजपासङ्गठनं अधिकं सुदृढं कर्तुं तथा च दलस्य नीतयः, प्रधानमन्त्रिणः नरेन्द्रमोदिनः मुख्यमन्त्रिणः योगी आदित्यनाथस्य च नेतृत्वे प्रचलिताः जनकल्याणकारीकार्यक्रमाः च जनजनं प्रति प्रापयितुं पूर्णप्रतिबद्धतया कार्यं करिष्यते।
अस्याः पूर्वं जनपदसीमायां रानीमऊं प्राप्तमात्रे स्वागतक्रमः प्रारब्धः। अत्र विधायकः रामचन्द्रयादवः, पूर्वजिलाध्यक्षः अवधेशपाण्डेयः ‘बादल’, अखण्डप्रतापसिंहः डिम्पलः तथा जिलापदाधिकारिणः तस्य स्वागतं कृतवन्तः। ततः मवयीनगरे ब्लॉकप्रमुखः राजीवतीवारी तथा रूदौलीमण्डलस्य कार्यकर्तारः तस्य स्वागतं कृतवन्तः। महोलीनगरे विधायकस्य अमितसिंहचौहानस्य नेतृत्वे कार्यकर्तारः स्वागतं कृतवन्तः।
रौनाही-टोलप्लाजायां पूर्वविधायकस्य इन्द्रप्रतापतीवारिणः ‘खब्बू’ इत्यस्य नेतृत्वे एकशतकैककिलोग्रामपरिमितया विशालया मालया तस्य स्वागतं कृतम्। हरीपुर-जलालाबादे विधायकस्य चन्द्रभानुपास्वानस्य नेतृत्वे कार्यकर्तृभिः भव्यं स्वागतं कृतम्। ततः महानगरक्षेत्रे प्रवेशमात्रे स्थले स्थले स्वागतक्रमः निरन्तरं प्रवृत्तः।
त्रिमूर्तिहोटलस्य पुरतः ब्लॉकप्रमुखसङ्घस्य जिलाध्यक्षस्य तथा महानगरमहामन्त्रिणः शिवेन्द्रसिंहस्य नेतृत्वे कार्यकर्तृभिः स्वागतं कृतम्। सहादतगञ्ज-ओवरब्रिजस्य प्रारम्भस्थले पूर्वविधायकस्य गोरखनाथस्य नेतृत्वे स्वागतकार्यक्रमः सम्पन्नः। गरुड़द्वारे महानगरपदाधिकारिभिः तस्य अभिनन्दनं कृतम्, यत्र एकपञ्चाशत्किलोग्रामपरिमितया मालया तस्य स्वागतं कृतम्।
दिशाकोचिङ्गसंस्थायाः पुरतः जिलापञ्चायतप्रशासिका रोलीसिंहस्य नेतृत्वे कार्यकर्तृभिः स्वागतं कृतम्। साकेतपुर्यां बैंकऑफबड़ौदाकार्यालयस्य मोड़स्थले पूर्वमहानगराध्यक्षस्य अभिषेकमिश्रस्य नेतृत्वे स्वागतकार्यक्रमः आयोजितः। अयोध्यानगरे अग्रे गच्छता स्वागतस्य कारवाँ रामायाहोटलपर्यन्तं प्राप्तः, यत्र पूर्वमहापौरस्य ऋषिकेशोपाध्यायस्य नेतृत्वे कार्यकर्तृभिः हरीशद्विवेदी-महोदयस्य स्वागतं कृतम्।
Hindusthan Samachar / Dheeraj Maithani