Enter your Email Address to subscribe to our newsletters

बॉलीवुड्-जगतः दिग्गजः अभिनेता अनुपमखेरः स्वस्य चत्वारिंशत्-वर्षीय-दीर्घे अभिनय-जीवने पञ्चशताधिकेषु चलचित्रेषु अभिनयम् अकरोत्। अभिनयेन सह सः निर्देशनक्षेत्रेऽपि स्वहस्तं परीक्षितवान्। अधुना सः सामाजिकमाध्यमस्य माध्यमेन स्वस्य पञ्चशतपञ्चपञ्चाशत्तमस्य (५५५) चलचित्रस्य आधिकारिकम् उद्घोषणं कृतवान्। तथापि अभिनेत्रा चलचित्रस्य नाम्नः कथायाश्च सम्बन्धिता कापि सूचना न प्रकाशिता, अपि तु प्रशंसकान् अस्य रहस्यस्य आनन्दं यावत् तावत् भोक्तुं उक्तवान्।
अनुपमखेरः स्वस्य सन्देशे लिखितवान् यत् काश्चित् विषयाः हृदये एव स्थापयितुं श्रेयस्कराः भवन्ति, यतः समुचितसमये तेषां प्रकाशनस्य आनन्दः भिन्नः भवति। सः उक्तवान् यत् स्वस्य पञ्चशतपञ्चपञ्चाशत्तमस्य चलचित्रस्य घोषणां कुर्वन् सः अत्यन्तं प्रसन्नः अस्ति तथा च समुचितसमयस्य प्राप्तौ चलचित्रसम्बद्धां विस्तृतां सूचनां प्रदास्यति। सः प्रशंसकान् तावत्पर्यन्तम् अस्य रहस्यस्य आनन्दं भोक्तुं आग्रहं कृतवान्। अनुपमस्य पूर्वं निर्देशितं चलचित्रं ‘तन्वी: द ग्रेट’ इति आसीत्।
अनेकासु चलचित्रेषु दृश्यते अनुपमखेरः
अनुपमखेरः आगामिषु दिनेषु अनेकासु बृहद्-चलचित्रेषु दृष्टिगोचरः भविष्यति। वार्तानुसारं सः रणबीरकपूरस्य ‘रामायण’ इति चलचित्रे जटायोः भूमिकायां दृष्टिगोचरः भवितुम् अर्हति। तदतिरिक्तं ‘श्री रामभूमि’ इति चलचित्रे सः विश्वहिन्दूपरिषदः दिग्गजनेतुः अशोकसिंघलस्य चरित्रं निर्वक्ष्यति। तस्य आगामीषु चलचित्रेषु ‘ये प्रेम मोल लिया’ तथा ‘खोसला का घोसला 2’ इत्येते अपि सम्मिलिते स्तः।
Hindusthan Samachar / Dheeraj Maithani