Enter your Email Address to subscribe to our newsletters

कोलकाता, 31 अगस्तमासः (हि. स.)।
उत्तर चतुर्विंशतिपरगणा-मण्डलस्य अशोकनगरे स्थितात् बैगाछी-तैलकूपात् निष्कासितं कच्चं खनिजतैलं अधुना हल्दियातैलशोधनागारे प्रेषयिष्यते। तत्र अस्य कच्चस्य तैलस्य शोधनं कृत्वा पेट्रोल्, डीजल्, मृत्तिकातैलं, पाकगैसम्, विमान-इन्धनं, डामरं च इत्यादयः उत्पादाः निर्मास्यन्ते। राज्यस्य स्वकीयस्य तैलस्य हल्दियायां शोधनं भवितुं कारणेन पश्चिमबङ्गाले औद्योगिकविकासस्य रोजगारावसराणां च वृद्धेः सम्भावना व्यक्ता क्रियते।
अशोकनगरस्य नाम अधुना देशस्य प्रमुखेषु तैलोत्पादकक्षेत्रेषु समाविष्टम् अभवत्। देशे मुम्बई हाई इति क्षेत्रं खनिजतैलोत्पादनस्य बृहत्तमं क्षेत्रम् इति मन्यते। तदतिरिक्तम् असम-गुजरातयोः अनेकक्षेत्रेभ्यः अपि कच्चस्य तैलस्य उत्पादनं भवति।
बैगाछीक्षेत्रे दीर्घकालं यावत् अन्वेषणं परीक्षणं च कृत्वा वर्षे २०१८ तमे तैल-प्राकृतिकगैस-निगमेन अर्थात् ओएनजीसी-संस्थया अत्र तैलस्य उपलब्धतां प्रति स्थितिः स्पष्टा कृता। प्रायः अष्टवर्षाणां प्रयासानाम् अनन्तरं बैगाछीतैलकूपात् १२ सहस्रं लीटर् कच्चं तैलं निष्कासितम् अस्ति।
ओएनजीसी-संस्थायाः अन्वेषणनिदेशकः ओमप्रकाशसिंहः उक्तवान् यत् प्रायः शतं कर्मचारिणां प्रयासेन १२ सहस्रं लीटर् तैलस्य निष्कासनं सम्भवं जातम्। तेन उक्तं यत् तैलस्य गुणवत्ता उत्तमा अस्ति तथा च तत् टैंकर्-वाहनेन हल्दियातैलशोधनागारे प्रेषयिष्यते।
बैगाछीतः हल्दियापर्यन्तं दूरत्वं प्रायः १७५ किलोमीटर् अस्ति। मार्गेण प्रायः चतुर्भिः घण्टाभिः कच्चं तैलं हल्दियां प्राप्स्यति इति सम्भावना अस्ति। इण्डियन ऑयल् कॉरपोरेशन-संस्थायाः हल्दियातैलशोधनागारस्य कार्यकारीनिदेशकः शोधनागारप्रमुखश्च सुशान्तकुमारदासः उक्तवान् यत् देशे निष्कासितस्य कच्चस्य तैलस्य शोधनस्य अवसरः प्राप्तः इति शुभसमाचारः अस्ति। अस्मिन् विषये ओएनजीसी-संस्थया सह सम्झापनपत्रे हस्ताक्षरस्य प्रक्रिया प्रचलति।
हल्दियातैलशोधनागारे अधुना मुख्यरूपेण रूसदेशात्, कोलम्बियादेशात्, वेनेजुएलादेशात् तथा अन्येभ्यः विभिन्नदेशेभ्यः आगच्छतां कच्चानां तैलानां शोधनं क्रियते। अधुना अशोकनगरस्य तैलमपि अस्मिन् शोधनप्रक्रियायां सम्मिलितं भविष्यति। यदि सर्वं निर्धारितकार्यक्रमानुसारं सम्पन्नं भवति, तर्हि १२ सहस्रं लीटर् कच्चं तैलं अस्मिन् सप्ताहे हल्दियां प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani