गौहाटीविश्वविद्यालये द्विदिवसीयः संस्कृतदिवसमहोत्सवः आयोजितः
गुवाहाटी, ३१ अगस्तमासः (हि.स.)। गौहाटीविश्वविद्यालयस्य संस्कृतविभागेन आचार्य-उमाकान्तदेवशर्म-प्रतिष्ठानेन तथा नवदिल्लीस्थेन बीएपीएस-स्वामिनारायण-अनुसन्धानसंस्थानेन च संयुक्ततत्त्वावधानेन द्विदिवसीयः संस्कृत-दिवस-महोत्सवः सफलतया आयोजितः। कार्यक्रमस
Image of the Two-Day Sanskrit Day Festival Held At Gauhati University.


गुवाहाटी, ३१ अगस्तमासः (हि.स.)। गौहाटीविश्वविद्यालयस्य संस्कृतविभागेन आचार्य-उमाकान्तदेवशर्म-प्रतिष्ठानेन तथा नवदिल्लीस्थेन बीएपीएस-स्वामिनारायण-अनुसन्धानसंस्थानेन च संयुक्ततत्त्वावधानेन द्विदिवसीयः संस्कृत-दिवस-महोत्सवः सफलतया आयोजितः।

कार्यक्रमस्य शुभारम्भः संस्कृतविभागस्य विद्यार्थिभिः सरस्वतीवन्दनायाः स्वागत-गीतस्य च प्रस्तुत्या अभवत्। कार्यक्रमस्य सञ्चालनं विभागस्य शोधच्छात्रा हियाश्रीरायया कृतम्।

संस्कृतविभागाध्यक्षः प्रो. कामेश्वरशुक्लः स्वागतभाषणे श्रावणीपूर्णिमायाः अवसरं मन्यमानस्य विश्वसंस्कृतदिवसस्य संस्कृतसप्ताहस्य च इतिहासं ताभ्यां सम्बद्धाः परम्पराः च प्रकाशयन् अवदत्।

महोत्सवस्य अवधौ राज्यस्तरीययोः संस्कृतश्लोकवृत्तिप्रतियोगितायाः संस्कृतभाषणप्रतियोगितायाश्च आयोजनम् अभवत्। तयोः उच्चविद्यालयस्य उच्चतरमाध्यमिकस्तरस्य च विद्यार्थिभिः सह महाविद्यालयानां विश्वविद्यालयानां च विद्यार्थिभिः शोधच्छात्रैश्च सहभागिता कृता। विजेतृभ्यः नगदपुरस्काराः प्रमाणपत्राणि पारम्परिकम् उत्तरियं स्मृतिचिह्नानि च प्रदाय सम्मानिताः।

अस्मिन्नवसरे आचार्य-उमाकान्तदेवशर्म-प्रतिष्ठानस्य गुवाहाटीशाखायाः पक्षतः अखिलभारतीयसाहित्यपरिषदः अध्यक्षायै मृणालिनीदेव्यै ‘वाणीविभूति’ सम्मानं तथा बरपेटासत्रस्य वृद्धसत्राधिकाऱिणे डॉ. बाबुलचन्द्रदासाय ‘वैष्णववैभव’ सम्मानं प्रदत्तम्।

समारोहे डॉ. बाबुलचन्द्रदासः, मृणालिनी-देवी, असमविधानसभायाः सचिवः राजीवभट्टाचार्यः तथा आचार्य-उमाकान्तदेवशर्म-प्रतिष्ठानस्य सचिवः ज्योतिर्मयशर्मा च अपि सम्बोधितवन्तः।

कार्यक्रमस्य समापनं गौहाटीविश्व-विद्यालयस्य संस्कृतविभागस्य प्राध्या-पकेन डॉ. जगदीशशर्मणा धन्यवादज्ञापनेन कृतम्।

Hindusthan Samachar / Divya Ranjan