नवदिल्ली इत्यत्र ‘बदरिया : ए मॉनसून फेयरवेल फेस्टिवल’ इत्यस्य भव्यायोजनम्, कजर्याः ठुमर्याः च दर्शकाः मन्त्रंमुग्धाः
नवदिल्ल्ली, ३१ अगस्तमासः (हि.स.)। मानसूनस्य विदायं सांस्कृतिकोत्सवरूपेण आचरितुं तालकटोराक्रीडाङ्गणे अद्य ‘बदरिया : ए मॉनसून फेयरवेल फेस्टिवल’ इत्यस्य भव्यं आयोजनं कृतम्। दिल्ली-सर्वकारस्य कलासंस्कृति-भाषाविभागस्य, माता चकेरीदेवी फाउण्डेशन इत्यस्य त
तालकटोरा स्टेडियममें ‘बदरिया: ए मॉनसून फेयरवेल फेस्टिवल’ का भव्य आयोजन के दौरान मंत्री कपिल मं


नवदिल्ल्ली, ३१ अगस्तमासः (हि.स.)। मानसूनस्य विदायं सांस्कृतिकोत्सवरूपेण आचरितुं तालकटोराक्रीडाङ्गणे अद्य ‘बदरिया : ए मॉनसून फेयरवेल फेस्टिवल’ इत्यस्य भव्यं आयोजनं कृतम्। दिल्ली-सर्वकारस्य कलासंस्कृति-भाषाविभागस्य, माता चकेरीदेवी फाउण्डेशन इत्यस्य तथा दिल्ली-सर्वकारस्य मैथिली-भोजपुरी-अकादम्याः सहयोगेन आयोजितायाम् अस्यां विशेषसांस्कृतिकसन्ध्यायां लोक-सङ्गीतस्य, लोकनृत्यस्य, चित्रकलायाः भारतीयसांस्कृतिक-परम्पराणां च विविधानि दृश्याणि द्रष्टुं प्राप्तानि।

कार्यक्रमे केन्द्रीयः राज्य-मन्त्री हर्षमल्होत्रा, दिल्लीसर्वकारस्य कला-संस्कृतिभाषामन्त्री कपिलमिश्रः, सांसदः मनोजतिवारी इत्येतै: सह दिल्लीप्रदेशस्य अन्येषां सांसदानां, विधानसभासदस्यानां तथा अनेकानाम् अतिथीनां गरिमामयी उपस्थितिः आसीत्।

कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत्, यस्मिन् मन्त्री कपिलमिश्रः अन्ये च गणमान्याः अतिथयः भागं गृहीतवन्तः। कार्यक्रमे उपस्थितानां सर्वेषां गणमान्य-अतिथीनां स्वागतं कृतम्। दीपप्रज्वलनस्य अनन्तरं माता चकेरीदेवी फाउण्डेशन इत्यस्य पक्षतः स्मृतिचिह्नानि अपि प्रदत्तानि।

उत्सवस्य प्रमुखाकर्षणं पद्मश्रीपुरस्कृता सुप्रसिद्धा लोकगायिका मालिनीअवस्थी आसीत्। तया स्वस्य कजरीगीतानां, ठुमरीगीतानां अन्यासां च लोकधुनिनां मनोहराभिः प्रस्तुतिभिः दर्शकाः मन्त्रंमुग्धाः कृताः। तया सह अन्यैः कलाकारैः अपि वाद्यसङ्गीतस्य लोकप्रस्तुतीनां च माध्यमेन बिहारस्य, उत्तरप्रदेशस्य पूर्वाञ्चलस्य च समृद्धाः लोकपरम्पराः सङ्गीतस्य च गाम्भीर्यं सजीवं कृतम्।

‘बदरिया’ इत्यस्य प्रेरणा भारतीयपरम्परायां मानसूनस्य सांस्कृतिकमहत्त्वात् गृहीता अस्ति। कालिदासस्य ‘मेघदूतम्’ इव साहित्यिकग्रन्थेभ्यः आरभ्य लोकगीत-पर्यन्तं मानसूनः भारतीयजीवने आनन्दस्य, विरहस्य, प्रेम्णः सृजनस्य च प्रतीकरूपेण वर्तते। एतामेव सांस्कृतिक-भूमिकां केन्द्रे निधाय उत्सवे सावन-भाद्रपदयोः पारम्परिकगीतानां, लोक-नृत्यस्य सङ्गीतस्य च प्रस्तुतिभिः भारतीयलोकजीवनस्य समृद्धपरम्पराः प्रदर्शिताः।

केन्द्रीयः राज्य-मन्त्री हर्षमल्होत्रः अवदत् यत् दिल्लीस्य मुख्यमन्त्रिण्याः रेखा-गुप्तायाः नेतृत्वे राजधानीं सांस्कृतिक-गतिविधीनां केन्द्रं कर्तुं दिशि निरन्तरं कार्यं क्रियते। ‘बदरिया’ इव आयोजनानि अस्याः संकल्पनायाः अग्रे नयनं कुर्वन्ति तथा दिल्लीनिवासिनः प्रकृत्या, कलया, सङ्गीतेन स्वकीयाभिः सांस्कृतिकपरम्पराभिश्च सह संयोजयन्ति।

हर्षमल्होत्रः अवदत् यत् दिल्लीसर्वकारेण गतसार्धैकवर्षे राजधानीविकासाय नागरिकसुविधानां च सुधाराय अनेकानि दृढपदानि गृहीतानि। अद्य दिल्ली विकासेन सह स्वकीयां सांस्कृतिकपरिचितिम् अपि दृढतया अग्रे नयति तथा ‘बदरिया’ इव आयोजनानि परिवर्तमानायाः दिल्ली इत्यस्य सांस्कृतिकचित्रस्य परिचायकानि सन्ति।

मन्त्री कपिलमिश्रः अवदत् यत् दिल्ली इत्यत्र गतवर्षे भोजपुरी-मैथिली-लोकपरम्पराणां विषये एतादृशः बृहद् सांस्कृतिककार्यक्रमः प्रारब्धः आसीत्। एतत् मुख्यमन्त्रिण्याः संकल्पनायाः मार्गदर्शनस्य च कारणेन सम्भवं जातम्। अस्य वारस्य अनुभवः प्रमाणयति यत् दिल्ली देशस्य प्रमुखसांस्कृतिक-कार्यक्रमाणां नूतनं केन्द्रं भवितुं शक्नोति।

मन्त्री कपिलमिश्रः अवदत् यत् दिल्ल्यां छठपर्व, दूर्गापूजा अन्ये च पारम्परिकपर्वाणि अपि एतादृशेन भव्यतया आचर्यन्ते। सर्वकारस्य उद्देश्यं दिल्ली इत्यत्र निवसतां विभिन्नप्रदेशानां भाषा-समुदायानां च सांस्कृतिकपरम्पराभ्यः सम्मानं मञ्चं च प्रदातुम् अस्ति, येन दिल्ली इत्यस्य विविधता तस्याः महत्तमा सांस्कृतिकशक्तिः भवेत्।

मन्त्री कपिलमिश्रः अवदत् यत् ‘बदरिया’ केवलं सांस्कृतिककार्यक्रमः न, अपितु लोकभाषां, लोकसङ्गीतं, कलां भारतीयपरम्पराश्च नूतनवंशेन सह संयोजयितुं महत्त्वपूर्णः प्रयासः अस्ति। दिल्लीसर्वकारः राजधानीं एतादृशानां आयोजनानां निरन्तरं प्रोत्साहनं दास्यति तथा दिल्लीं देशस्य प्रमुख-सांस्कृतिकगतिविधीनां केन्द्ररूपेण विकसितुं दिशि कार्यं करिष्यते।

कार्यक्रमे कलाकाराः, युवप्रतिभाः तथा सांस्कृतिकक्षेत्रे सम्बद्धाः जनाः सम्मानिताः। अस्मिन् अवसरे स्मृति-चिह्नानि अपि प्रदत्तानि। ‘बदरिया’ इत्यनेन सङ्गीतस्य, लोककलायाः, साहित्यस्य सांस्कृतिकविविधतायाश्च माध्यमेन ऋतो: विदायं स्मरणीयसांस्कृतिकोत्सवे परिवर्तितम्।

Hindusthan Samachar / Divya Ranjan