Enter your Email Address to subscribe to our newsletters

मेदिनीपुरम्, ३१ अगस्तमासः (हि.स.)। पूर्वमेदिनीपुरजनपदस्य नन्दिग्रामे मुख्यमन्त्री शुभेन्दु अधिकारी सोमवासरे प्रशासनिकसभाम् अकरोत्। रेयापाडायाम् आयोजिते अस्मिन् कार्यक्रमे तेन नन्दिग्रामविधानसभाक्षेत्रे जनकल्याण-सम्बद्धानां विविधपरियोजनानाम् उद्घाटनं कृतम्। मुख्यमन्त्रिणा नन्दिग्रामे नूतनस्य अग्निशमनकेन्द्रस्य अपि उद्घाटनं कृतम्।
अवसरेऽस्मिन् आयोजितायां सभायां मुख्यमन्त्री अवदत् यत् नन्दिग्रामस्य जनैः सह तस्य विंशतिवर्षपुरातनः सम्बन्धः अस्ति। सः अवदत् यत् अद्य नन्दिग्रामस्य कृते महत्त्वपूर्णः दिवसः अस्ति। क्षेत्रे द्वात्रिंशत् मार्गाणां निर्माणस्य कार्यं प्रचलति। तेन उक्तं यत् नन्दिग्रामे विकासस्य नूतन: अध्यायः प्रारभ्यते।
मुख्यमन्त्री अवदत् यत् नन्दिग्रामे एकादशसहस्राधिकसप्तशतं गृहाणि निर्मास्यन्ते। सः नन्दिग्रामस्य हरिपुरे अग्निशमनकेन्द्रस्य उद्घाटनं कृतवान् इत्यपि सूचितवान्। मुख्यमन्त्री अवदत् यत् नन्दिग्रामस्य बहुसंख्यकाभ्यः महिलाभ्यः अन्नपूर्णायोजनायाः अन्तर्गतं आर्थिक-सहायता प्रदत्ता अस्ति।
Hindusthan Samachar / Divya Ranjan