मुख्यमंत्री सायः अद्य भाजपा किसान मोर्चादलस्य उपवेशने सम्मेलिष्यते
रायपुरम्, 31 अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः सोमवासरे राजधानीरायपुरनगरे आयोजितयोः द्वयोः महत्त्वपूर्णयोः स्थानीयकार्यक्रमयोः सहभागितां करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादन ३० निमेषे मेफेयर् लेक् रिसोर्ट्
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 31 अगस्तमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः सोमवासरे राजधानीरायपुरनगरे आयोजितयोः द्वयोः महत्त्वपूर्णयोः स्थानीयकार्यक्रमयोः सहभागितां करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादन ३० निमेषे मेफेयर् लेक् रिसोर्ट् इत्यत्र आयोजिते खनिजसाधनविभागस्य कार्यक्रमे भागं ग्रहीष्यति। तदनन्तरं मुख्यमन्त्री अपराह्ने ३ वादन १५ निमेषे भाजपाकृषकमोर्चायाः प्रदेशकार्यसमित्याः समापनकार्यक्रमे सम्मिलितः भूत्वा उपस्थितजनान् सम्बोधयिष्यति।

Hindusthan Samachar / Dheeraj Maithani