शुद्धिकरणकर्तॄणां विरुद्धे कार्यवाहीपर्यन्तं न स्थास्यति कांग्रेसदलस्य विरोधः - वेणुगोपालः
नवदिल्ली, ३१ अगस्तमासः (हि.स.)। उत्तराखण्डस्य हल्द्वानीनगरे कांग्रेसदलस्य अध्यक्षस्य मल्लिकार्जुनखरगे इत्यस्य जनसभायाः अनन्तरं कथितशुद्धिकरणस्य विषये विपक्षनेतुः राहुलगान्धिनः विरुद्धं प्राथमिकी पञ्जीकृतस्य कांग्रेसदलेन निन्दा कृता। कांग्रेसदलस्य म
कांग्रेस महासचिव (संगठन) केसी वेणुगोपाल (फाइल फोटो)।


नवदिल्ली, ३१ अगस्तमासः (हि.स.)। उत्तराखण्डस्य हल्द्वानीनगरे कांग्रेसदलस्य अध्यक्षस्य मल्लिकार्जुनखरगे इत्यस्य जनसभायाः अनन्तरं कथितशुद्धिकरणस्य विषये विपक्षनेतुः राहुलगान्धिनः विरुद्धं प्राथमिकी पञ्जीकृतस्य कांग्रेसदलेन निन्दा कृता। कांग्रेसदलस्य महासचिवः के.सी. वेणुगोपालः अवदत् यत् राहुलगान्धिनः विरुद्धं प्राथमिकी-पञ्जीकरणं राजनैतिकदुर्भावनां प्रदर्शयति। सः अवदत् यत् शुद्धिकरणं कृतवद्भ्यः जनेभ्यः विरुद्धं यावत् कार्यवाही न क्रियते, तावत् कांग्रेसदलस्य विरोधः न विरमिष्यति।

वेणुगोपालः ‘एक्स’-इत्यत्र प्रकाशिते सन्देशे अवदत् यत् राहुलगान्धिना वार्ताहरसम्मेलने खरगेमहोदयस्य सभायाः अनन्तरं कृतस्य कथितशुद्धिकरणस्य विषये भाजपाकार्यकर्तॄणां विरुद्धं अभियोजनं कर्तुं याचना कृता आसीत्। तस्याः याचनाया: परदिने एव उत्तराखण्डपुलिसेन राहुलगान्धिनः विरुद्धं प्राथमिकी पञ्जीकृता। सः अस्य स्थितेः वर्णनं ‘उल्टा चोर कोतवाल को डांटे' इत्यस्य सदृशरूपेण कृतवान्। सः आरोपितवान् यत् ततोऽपि गम्भीरं विषयमिदम् अस्ति यत् भाजपादलेन कथितजातिवादीव्यवहारस्य रक्षणं कृतमिति। अनेन एषः सन्देशः गच्छति यत् सामाजिकान्यायस्य विरुद्धं स्वरं मुखरयन्तः जनाः पीडिताः भवन्तु इति राज्यस्य सम्पूर्णशक्तेः प्रयोगं कर्तुं भाजपादलं सिद्धमस्ति।

सः अवदत् यत् सोमवासरसन्ध्यायां कांग्रेसदलस्य कार्यकर्तारः देशस्य सर्वत्र वीथिषु अवतरिष्यन्ति। अस्मिन् क्रमे कांग्रेसदलेन खरगेमहोदयस्य अपमाने संलिप्तत्वेन आरोपितानां भाजपानेतॄणां विरुद्धं कार्यवाही कर्तुं मागः क्रियते। संविधानस्य अन्तर्निहितानां सामाजिक-न्यायमूल्यानां रक्षणार्थं च विरोधप्रदर्शनं करिष्यते। सः अवदत् यत् कथित-शुद्धिकरणस्य घटनायाः उत्तरदायिनां जनानां विरुद्धं यावत् विधिसम्मता कार्यवाही न भवति, तावत् कांग्रेसदलस्य आन्दोलनं निरन्तरं प्रचलिष्यति।

Hindusthan Samachar / Divya Ranjan