Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 अगस्तमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः हापुड़जनपदे मार्गदुर्घटनायां चतुर्णां जनानां मृत्योः दुःखं प्रकटितवान्
मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य हापुड़जनपदे घटिते मार्गदुर्घटनायां चतुर्णां जनानां मृत्योः दुःखं प्रकटितवान्। तेन सम्बन्धितजनपदस्य अधिकारिभ्यः पीडितेभ्यः राहत्प्रदानाय निर्देशाः प्रदत्ताः।
मुख्यमन्त्री योगी हापुड़जनपदे घटितायां मार्गदुर्घटनायां चतुर्णां जनानां मृत्योः घटनायाः संज्ञानं गृहीतवान्। अस्याः घटनायाः विषये मुख्यमन्त्रिणा मृतकानां शोकसन्तप्तपरिजनेभ्यः संवेदना प्रकटिता। तेन अधिकारिभ्यः घातितानां समुचितचिकित्सां कारयितुं निर्देशाः प्रदत्ताः। सहैव पीडितपरिवारैः सह संवादं कृत्वा तेभ्यः सर्वसम्भवं साहाय्यं प्रदातुमपि आदेशः प्रदत्तः। मुख्यमन्त्रिणा घातितानां शीघ्रस्वास्थ्यलाभस्य कामना कृता।
उल्लेखनीयं यत् हापुड़जनपदे गङ्गा-एक्स्प्रेस्-मार्गे रविवासरस्य रात्रौ एका कार् दुर्घटनाग्रस्ता अभवत्। अस्मिन् दुर्घटनायां कार्-याने यात्रां कुर्वतां चतुर्णां जनानां मृत्युः अभवत्, एकश्च जनः घातितः अस्ति।
पुलिस्-अधिकारिभिः मृतकानां परिचयः बदायूंजनपदस्य पालपुरग्रामनिवासिनां योगिन्दरस्य (२६), सुखबीरस्य (२५), जसवन्तस्य (२०) तथा रविकुमारस्य (२०) इति कृतः। अपरतः घातितस्य विष्णोः (१७) चिकित्सालये उपचारः प्रचलति।
---------------
Hindusthan Samachar / Dheeraj Maithani