भारतीयसमुद्रसैन्यस्य समुद्रदले सम्मिलितन द्वितीयं स्वदेशीयं गोताखोरीसहायताजलयानम् ‘निपुणः’
गभीरे समुद्रे गोताखोरीक्षमतायाः जलान्तर्गतसहायताक्षमतानां च महती वृद्धिः भविष्यति नवदिल्ली, ३१ अगस्तमासः (हि.स.)। मुम्बईस्थिते नौसेनायाः नौकास्थले सोमवासरे निस्तारश्रेण्याः द्वितीयं गोताखोरीसहायताजलयानं ‘निपुणम्’ भारतीयनौसेनया समुद्रदले सम्मिलितम्
स्वदेशी डाइविंग सपोर्ट वेसल ‘निपुण’ (फाइल फोटो)


गभीरे समुद्रे गोताखोरीक्षमतायाः जलान्तर्गतसहायताक्षमतानां च महती वृद्धिः भविष्यति

नवदिल्ली, ३१ अगस्तमासः (हि.स.)। मुम्बईस्थिते नौसेनायाः नौकास्थले सोमवासरे निस्तारश्रेण्याः द्वितीयं गोताखोरीसहायताजलयानं ‘निपुणम्’ भारतीयनौसेनया समुद्रदले सम्मिलितम्। अनेन सम्मिलनेन नौसेनायाः गभीरे समुद्रे गोताखोरीक्षमता जलान्तर्गतसहायता-क्षमता च महत्त्वपूर्णरूपेण वर्धिष्यते। अद्यतनदिवसः जलयानस्य निर्माणात् आरभ्य कार्यात्मक-सेवापर्यन्तस्य यात्रायाः नूतनस्य अध्यायस्य आरम्भरूपेण मन्यते।

विशाखापत्तनम्स्थितेन हिन्दुस्तानशिपयार्ड् लिमिटेड् इत्यनेन ‘निपुणम्’ अभिकल्पितं निर्मितं च। रक्षाजलयाननिर्माणक्षेत्रे भारतस्य आत्मनिर्भरताप्रयासस्य दिशि एतत् महत्त्वपूर्णं मीलफलकम् अस्ति। उपकरणस्थापनस्य परीक्षणस्य च विस्तृतकार्यक्रमस्य समाप्तेः अनन्तरं जलयानम् जुलाईमासस्य त्रिंशत्तमे दिनाङ्के भारतीयनौसेनायै समर्पितम् आसीत्। एतत् विशेषरूपेण निर्मितं मञ्चम् अस्ति, यत् गोताखोरीजलान्तर्गत-विविधकार्यसञ्चालनेषु सहाय्यार्थं अभिकल्पितम् अस्ति। एतत् जलयानम् आधुनिकगोताखोरीप्रणालीभिः जलान्त-र्गतहस्तक्षेपक्षमताभिश्च सुसज्जितम् अस्ति, येन समुद्रे कठिन-परिस्थितिषु कार्यं कुर्वद्भ्यः गोताखोरेभ्यः निरन्तरसहायता प्रदास्यते। एतत् पनडुब्बी-उद्धार-अभियानेषु नौसेनायाः सहाय्यकरणक्षमताम् अपि वर्धयिष्यति।

जलयाने नौवहनस्य, मञ्चप्रबन्धनस्य, उचितस्थानधारणस्य च कृते आधुनिकप्रणाल्यः सन्ति। सहैव गोताखोरी, जलान्तर्गतहस्तक्षेपस्य चिकित्सकीय-सहायतायाश्च कृते विशेषसुविधाः अपि सन्ति। एताः क्षमताः ‘निपुणम्’ जलस्य अधः कठिनकार्य-सञ्चालनाय एकीकृत-मञ्चरूपेण कार्यं कर्तुं समर्थं कुर्वन्ति। ‘निपुणस्य’ सेवाप्रवेशेन भारतीयसमुद्रीय-क्षेत्रेषु विशेषगोताखोरी-जलान्तर्गत-अभियानानां सञ्चालनस्य नौसेनायाः क्षमता अधिका सुदृढा भविष्यति। स्वदेशे निर्मितस्य अस्य मञ्चस्य समावेशः देशस्य जलयान-निर्माण-परिसरतन्त्रस्य वर्धमानक्षमताम् अपि प्रदर्शयति, येन नौसेनायाः कार्यात्मका-वश्यकतानां पूर्तये प्रौद्योगिकीदृष्ट्या उन्नतानि विशेषजल-यानानि निर्मातुं शक्यते।

नौसेनायाः कप्तान विवेकमधवालः अवदत् यत् जलयाने स्थापितं चिह्नम् गोताखोरी-सहायताजलयानस्य मुख्यभूमिकां गभीरे समुद्रे गोताखोरी-सम्बद्धं साहसं धैर्यं व्यावसायिक-दक्षतां च प्रदर्शयति। आधुनिकगोताखोरीशिरस्त्राणं जलयानस्य उन्नतगोताखोरीप्रणाल्याः जीवनरक्षण-सामर्थ्यस्य च प्रतीकम् अस्ति। एतत् गोताखोर इत्येतान् अत्यधिकगभीरे जले सुरक्षिततया प्रभावीरूपेण च कार्यं कर्तुं समर्थान् करिष्यति। तिमिङ्गिलं गोताखोरीशिरस्त्राणं च संयुक्तरूपेण ‘निपुणम्’ तादृशं मञ्चं प्रदर्शयतः, यत् गोताखोरान् समुद्रस्य गभीरतां प्रति नेतुं, तत्र तान् स्थिरीकर्तुं, सुरक्षितरूपेण प्रत्यानेतुं च प्रतिबद्धम् अस्ति।

Hindusthan Samachar / Divya Ranjan