Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 अगस्तमासः (हि.स.)। देशस्य अर्थव्यवस्थया वित्तवर्षस्य २०२६-२७ प्रथमत्रैमासिके (अप्रैल-जून) ७.८ प्रतिशतस्य प्रभावशालिनी वृद्धिदरः पञ्जीकृता। अनेन पुनरेकवारं सिद्धं जातं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतं विश्वस्य द्रुततमगतिना वर्धमानासु प्रमुखासु अर्थव्यवस्थासु स्वस्य अग्रणीस्थानं निरन्तरं धारयति। चाँदनी चौक्-क्षेत्रस्य सांसदः तथा च सर्वभारतीयव्यापारिसङ्घस्य (कैट) राष्ट्रियमहासचिवः प्रवीणखण्डेलवालः सोमवासरे सकलघरेलूत्पादस्य (जीडीपी) प्रकाशितानां दत्तांशानां विषये प्रतिक्रियां ददन् एतद् उक्तवान्।
खण्डेलवालः उक्तवान् यत् एषा वृद्धिदरः न केवलं भारतीय-रिजर्व-बैंकस्य (आरबीआई) अनुमानात् अधिका अस्ति, अपितु अधिकांशानाम् अर्थशास्त्रिणां अपेक्षामपि अतिक्रामति। सः उक्तवान् यत् अस्य उल्लेखनीयस्य उपलब्धेः श्रेयः प्रधानमन्त्री नरेन्द्रमोदिनः देशस्य आर्थिकनीतीनां निर्माणे क्रियान्वयने च प्रदर्शितस्य नेतृत्वस्य एव फलम् अस्ति। एषा वृद्धिः स्पष्टतया दर्शयति यत् भारतस्य अर्थव्यवस्था सुदृढया आन्तरिकमागधया, वर्धमानेन निवेशेन, विनिर्माणक्षेत्रस्य प्रगत्या, आधारभूतसंरचनायै वर्धितेन व्ययेन तथा च निर्यातस्य उत्तमप्रदर्शनेन अग्रे वर्धमाना अस्ति।
खण्डेलवालः उक्तवान् यत् देशस्य व्यापारजगतः कृते विशेषरूपेण उत्साहवर्धकः सङ्केतः अस्ति यत् पूंजीगतनिवेशे उल्लेखनीया वृद्धिः अभवत्। अनेन स्पष्टं भवति यत् उद्योगव्यापारसमुदायः भारतस्य विकासयात्रायां पूर्णविश्वासं प्रकटयति। सः उक्तवान् यत् केन्द्रसर्वकारेण आधारभूतसंरचनानिर्माणे, अङ्कीय-अर्थव्यवस्थायां, विनिर्माणे तथा च रसदक्षेत्रे कृतेन निवेशेन प्राप्तः सकारात्मकः प्रभावः अधुना स्पष्टतया दृश्यते।
सः एतदपि उक्तवान् यत् वैश्विकस्तरे भू-राजनैतिकतनावस्य, ऊर्जामूल्यानां उत्थानपतनस्य तथा अन्तर्राष्ट्रीय-आर्थिकानिश्चिततानां सत्त्वेऽपि भारतस्य एतत् प्रदर्शनम् अत्यन्तं महत्त्वपूर्णम् अस्ति। एतत् दर्शयति यत् भारतीय-अर्थव्यवस्थायाः आधारः सुदृढः अस्ति तथा च देशः आत्मनिर्भरता, उत्पादनम्, नवाचारः तथा उपभोगाधारित-विकासप्रतिमानं च अवलम्ब्य अग्रे वर्धते। खण्डेलवालः उक्तवान् यत् देशस्य व्यापारिभ्यः अस्य महत् लाभं भविष्यति तथा च निश्चयेन आगामीषु त्रैमासिकेष्वपि भारतस्य आर्थिकवृद्धिः सुदृढा स्थास्यति।
‘विकसितभारत २०४७’ इति लक्ष्यस्य प्राप्तौ व्यापारस्य, उद्योगस्य, सूक्ष्म-लघु-मध्यम-उद्यमानां, नवोद्यामानां तथा उपभोक्तृवर्गस्य च महत्त्वपूर्णा भूमिका भविष्यति। भारतस्य एषा विकासगाथा न केवलम् आर्थिकसमृद्धेः प्रतीकम् अस्ति, अपितु वैश्विकमञ्चे भारतस्य वर्धमानप्रतिष्ठायाः प्रमाणमपि अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani