Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 अगस्तमासः (हि.स.)।
भारतीय-अर्थव्यवस्था चालू-वित्तवर्षस्य २०२६-२७ तमे वर्षे प्रथम-त्रैमासिके (अप्रैल-जून-मासयोः) अनुमानात् अपेक्षया श्रेष्ठतया ७.८ प्रतिशतस्य दरया वर्धिता अस्ति, या गतवित्तवर्षस्य समान-त्रैमासिके ६.९ प्रतिशतं वर्धिता आसीत्। एषा वृद्धिदरः पश्चिम-एशियायां प्रचलितस्य संकटस्य तेन च उत्पन्नायाः वैश्विक-आर्थिक-अनिश्चिततायाः मध्ये आन्तरिक-आर्थिक-गतिविधीनां दृढतां प्रदर्शयति।
सांख्यिकी-कार्यक्रम-कार्यान्वयन-मन्त्रालयेन राष्ट्रिय-माध्यम-केन्द्रे आयोजितायां पत्रकार-वार्तायां मन्त्रालयस्य सचिवः डॉ. सौरभ-गर्गः अप्रैल-जून-त्रैमासिके देशस्य आर्थिक-विकास-दरः ७.८ प्रतिशतं प्राप्तवती इति विषये स्वप्रतिक्रियाम् अददात्। गर्गः अवदत्, भारतीय-अर्थव्यवस्थायाः दृढता, या प्रतिवर्षं प्रतित्रैमासिकं च दृश्यते, तां दृष्ट्वा सावधानतापूर्वकं अनुमानं करणं स्वाभाविकम् अस्ति, किन्तु अहं मन्ये यत् भारतीय-उपभोक्तृभिः, भारतीय-कुटुम्बैः, निजी-अन्तिम-उपभोग-व्ययेन, निगमैः सर्वकारैश्च कृतैः निवेशैः एतत् सुनिश्चितं कृतम् अस्ति यत् विकास-दरः दृढः एव तिष्ठेत्।
राष्ट्रिय-सांख्यिकी-कार्यालयस्य अनुसारं चालू-वित्तवर्षस्य प्रथम-त्रैमासिके ७.८ प्रतिशतस्य वृद्धिप्रतिशतं भारतीय-रिजर्व- वित्तकोषस्य सप्त-प्रतिशतम् अनुमानादपि अधिकः अस्ति। एवं भारतं विश्वस्य द्रुततम-विकासमानासु प्रमुख-अर्थव्यवस्थासु अग्रणी अर्थव्यवस्था एव वर्तते। भारतीय-रिजर्व-बैङ्कद्वारा वित्तवर्षे २०२६-२७ तमे भारतीय-अर्थव्यवस्थायाः वृद्धिदरः ६.७ प्रतिशतं भविष्यतीति अनुमानं कृतम् अस्ति।
राष्ट्रिय-सांख्यिकी-कार्यालयस्य अनुसारं पश्चिम-एशिया-संकटेन ऊर्जामूल्येषु तीव्रवृद्धिः, मुद्रास्फीति-दबावः तथा वैश्विक-मागधायाः दुर्बलतायाः आशङ्का च उत्पन्ना आसीत्। एतादृशे परिस्थितौ अपेक्षातः श्रेष्ठा विकास-प्रतिशतं सूचयति यत् बाह्य-आघातानाम् अनन्तरमपि भारतस्य आर्थिक-वृद्धेः गतिः यावत् अक्षुण्णा एव अस्ति। एतत् तथ्यं नीतिनिर्मातृभ्यः किञ्चित् आश्वासनं प्रदत्तवान् अस्ति, यतः ते आर्थिक-वृद्धिं स्थिरां स्थापयितुं प्रयत्नशीलाः सन्तः भू-राजनैतिक-खिन्नताभिः वस्तु-बाजारेषु उत्पद्यमानाभिः मूल्य-परिवर्तनशीलताभिः च उत्पन्नानां जोखिमानां मध्ये सन्तुलनं स्थापयितुं प्रयतन्ते।
सांख्यिकी-कार्यक्रम-कार्यान्वयन-मन्त्रालयस्य अनुसारं चालू-वित्तवर्षस्य २०२६-२७ तस्य प्रथम-त्रैमासिके स्थिर-मूल्यानाम् आधारेण वास्तविक-सकल-घरेलू-उत्पादः ८१.३६ लक्ष-कोटि-रूप्यकाणि भविष्यतीति अनुमानितम् अस्ति। गतवित्तवर्षस्य २०२५-२६ तस्य समान-त्रैमासिके एषः ७५.४६ लक्ष-कोटि-रूप्यकाणि आसीत्।
मन्त्रालयेन उक्तम्, ‘‘वैश्विक-चुनौत्येषु विद्यमानेष्वपि भारतीय-अर्थव्यवस्थया प्रथम-त्रैमासिके वृद्धेः गतिः अक्षुण्णा स्थापिता अस्ति।’’
वर्तमान-मूल्यानाम् आधारेण सकलस्वदेशी-उत्पादः चालू-वित्तवर्षस्य अप्रैल-जून-त्रैमासिके ८८.२७ लक्ष-कोटि-रूप्यकाणि भविष्यतीति अनुमानितम् अस्ति, यत् गतवित्तवर्षस्य समान-अवधौ ८० लक्ष-कोटि-रूप्यकाणि आसीत्। एवं वर्तमान-मूल्यानाम् आधारेण सकल-घरेलू-उत्पादे १०.३ प्रतिशतस्य वृद्धिः अभवत्।
राष्ट्रीय-सांख्यिकी-कार्यालयस्य आँकडानाम् अनुसारं यद्यपि चालू-वित्तवर्षस्य २०२६-२७ तस्य प्रथम-त्रैमासिके सकल-घरेलू-उत्पादस्य वृद्धिदरः गतवित्तवर्षस्य २०२५-२६ तस्य चतुर्थ-त्रैमासिकस्य ८.६ प्रतिशतस्य अपेक्षया न्यूना आसीत्, तथापि पश्चिम-एशिया-संकटस्य ऊर्जापणेषु च उत्पन्नायाः उथल-पुथलस्य अनन्तरं कृतानाम् अनुमानानाम् अपेक्षया भारतस्य सकल-स्वदेशी-उत्पादस्य वृद्धिप्रतिशतम् अधिका अभवत्।
--------------
Hindusthan Samachar / Dheeraj Maithani