Enter your Email Address to subscribe to our newsletters

कठुआ, ३१ अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य शताब्दीवर्षस्य उपलक्ष्ये बरनोटीखण्डे कमलाप्रासादे प्रमुखजनगोष्ठी आयोजिता, यस्यां १५० अधिकाः प्रबुद्धजनाः भागं गृहीतवन्तः। कार्यक्रमस्य शुभारम्भः भारतमातुः चित्रस्य पुरतः दीपप्रज्वलनेन अभवत्। मुख्यातिथि-रूपेण सेवानिवृत्तः सी.ई.ओ. विजयसिंहः मुख्यवक्तृरूपेण सङ्घस्य कठुआ-विभागप्रचारकः अनुरागजी च उपस्थितौ आस्ताम्। खण्डसङ्घचालकः अञ्चल: अपि मञ्चे उपस्थितः आसीत्।
मुख्यवक्तुः अनुरागः ‘सङ्घस्य शतवर्षाणां यात्रा अग्रिमयोजना च’ इति विषये सम्बोधयन् अवदत् यत् राष्ट्रचरित्रस्य अभावे व्यक्तिगतचरित्रम् अपूर्णं भवति। डॉ. केशवबलिरामहेडगेवारः समाजस्य असङ्गठितस्थितिं राष्ट्रस्य दुर्बलतायाः प्रमुखं कारणं मन्यमानः १९२५ तमे वर्षे सङ्घस्य स्थापनां कृतवान् तथा च व्यक्तिनिर्माणं राष्ट्रनिर्माणस्य आधाररूपेण स्थापितवान्।
सः अवदत् यत् सङ्घस्य शतवर्षाणां यात्रा पञ्चानां वंशानां त्यागेन, तपस्यया समर्पणेन च अग्रे वर्धिता अस्ति। सः समाजस्य सज्जनशक्तिं राष्ट्रनिर्माणे सक्रियभूमिकां निर्वोढुम् आह्वानं कुर्वन् कुटुम्बप्रबोधनं, सामाजिकसमरसतां, पर्यावरणसंरक्षणं, स्वदेशीं नागरिककर्तव्यं च पञ्चपरिवर्तनरूपेण स्वीकरणस्य सन्देशं दत्तवान्।
मुख्यातिथिः विजयसिंहः समाजं सङ्गठितं, जागरितं राष्ट्राय समर्पितं च कर्तुं सङ्घेन क्रियमाणानां प्रयासानां प्रशंसां कृतवान्। कार्यक्रमस्य समापनं सामूहिकस्य ‘वन्दे मातरम्’ इत्यस्य उद्घोषेण अभवत्।
Hindusthan Samachar / Divya Ranjan