तुलसी जयंत्याम् एमएनपीएसमध्ये सज्जा साहित्यसंस्कृत्योः पाठशाला
पूर्वी सिंहभूमः, 31 अगस्तमासः (हि.स.)।मोतीलालनेहरू-पब्लिक-विद्यालयस्य सभागारे सोमवासरे सृजन-हिन्दी-परिषदः तत्त्वावधाने गोस्वामितुलसीदासस्य ५२९-तमजन्मजयन्त्याः अवसरे भव्यः तुलसीजयन्तीसमारोहः आयोजितः। समारोहस्य माध्यमेन छात्रान् भारतीयसंस्कृत्या, साह
विद्यालय प्रबंधन समिति के अध्यक्ष अखिलेश दुबे, महासचिव लल्लन प्रसाद राय, समिति के अन्य सदस्यों और अतिथियों ने संयुक्त रूप से दीप प्रज्ज्वलित कर समारोह का शुभारंभ करते और छात्रों द्वारा प्रस्तुती


पूर्वी सिंहभूमः, 31 अगस्तमासः (हि.स.)।मोतीलालनेहरू-पब्लिक-विद्यालयस्य सभागारे सोमवासरे सृजन-हिन्दी-परिषदः तत्त्वावधाने गोस्वामितुलसीदासस्य ५२९-तमजन्मजयन्त्याः अवसरे भव्यः तुलसीजयन्तीसमारोहः आयोजितः। समारोहस्य माध्यमेन छात्रान् भारतीयसंस्कृत्या, साहित्येन, परम्पराभिश्च सह संयोजयितुं तथा स्वकीयायाः सांस्कृतिकविरासतायाः प्रति सम्मानभावं विकसितुं सन्देशः प्रदत्तः।

समारोहे विद्यालयस्य नर्सरी-कक्षात् आरभ्य द्वादश-कक्षापर्यन्तं विद्यार्थिनः विविधासु सृजनात्मकासु साहित्यिकप्रतियोगितासु च उत्साहपूर्वकं भागं गृहीतवन्तः। लघुबालकानां कृते रामचरितमानसस्य पात्राणाम् आधारेण वेशभूषाप्रतियोगिता आयोजिता। एलकेजी तथा यूकेजी-कक्षयोः विद्यार्थिनः वर्णपूरणप्रतियोगितायां स्वप्रतिभां प्रदर्शितवन्तः। प्रथमकक्षायाः छात्राः कोलाजप्रतियोगितायां तथा द्वितीयकक्षायाः विद्यार्थिनः चित्राङ्कनप्रतियोगितायां भागं गृहीतवन्तः।

तृतीयकक्षायाः विद्यार्थिभिः रामचरितमानसस्य पात्राणाम् अनुकृतिः प्रस्तुतिता। चतुर्थकक्षायाः छात्राणां कृते चौपाईप्रतियोगिता आयोजिता।

कार्यक्रमे साहित्यकारः, वक्ता, वास्तुविद् च शैलेन्द्र-अस्थाना तथा साहित्यकारः अनिरुद्ध-त्रिपाठी ‘अशेषः’ मुख्यातिथिरूपेण उपस्थितौ आस्ताम्। विद्यालयप्रबन्धनसमित्याः अध्यक्षः अखिलेशदुबे, महासचिवः लल्लनप्रसादरायः, समितेः अन्ये सदस्याः अतिथयश्च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा समारोहस्य शुभारम्भं कृतवन्तः।

अस्मिन् अवसरे उत्तरप्रदेश-सङ्घस्य पदाधिकारिणः, विद्यालयस्य प्राचार्या सङ्गीतासिंहः, उपप्राचार्या राखीमित्रा, एक्सीलेन्स-उपप्राचार्या बिन्दुआहूजा, प्लस-टू-संयोजिका स्मितामजूमदारः, हाईस्कूल-संयोजिका पिकूकुमारी तथा प्राइमरी-संयोजिका इन्द्राणीभौमिकः सहिताः विद्यालयस्य शिक्षकाः शिक्षिकाश्च उपस्थिताः आसन्।

कार्यक्रमे विविधप्रतियोगितानां विजेतृभ्यः प्रतिभागिभ्यश्च विद्यार्थिभ्यः पुरस्कारान् प्रदाय सम्मानिताः कृताः। कार्यक्रमस्य सञ्चालनं अनुष्का-कुमारी, मुकुलदेवः तथा सृजनश्रीः इत्येते कृतवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani