लोकसभाध्यक्षः कजरीतृतीयायां देशवासिभ्योऽददात् शुभकामनाः
नव दिल्ली, 31 अगस्तमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला सोमवासरे भाद्रपदकृष्णतृतीयायाः ‘कजरीतीज’ इत्यस्य पावनावसरे सर्वेभ्यः देशवासिभ्यः हार्दिकाः शुभकामनाः अयच्छत्। बिरला ‘एक्स’ इत्यत्र लिखितवान्— “भाद्रपदकृष्णतृतीयायाः ‘कजरीतीज’ इत्यस्य पावनावस
प्रतीकात्मक


नव दिल्ली, 31 अगस्तमासः (हि.स.)।

लोकसभाध्यक्षः ओमबिरला सोमवासरे भाद्रपदकृष्णतृतीयायाः ‘कजरीतीज’ इत्यस्य पावनावसरे सर्वेभ्यः देशवासिभ्यः हार्दिकाः शुभकामनाः अयच्छत्।

बिरला ‘एक्स’ इत्यत्र लिखितवान्— “भाद्रपदकृष्णतृतीयायाः ‘कजरीतीज’ इत्यस्य पावनावसरे सर्वेभ्यः देशवासिभ्यः, विशेषतः मातृभ्यः भगिनीभ्यश्च हार्दिकाः शुभकामनाः! मातरः भगिन्यश्च स्वजीवनसहचरस्य दीर्घायुः कामयित्वा इदं पर्व आचरन्ति। एतत् पर्व पारिवारिकसुखस्य, समृद्धेः तथा लोकसंस्कृतेः मूलभावनानां च सुन्दरं प्रतीकम् अस्ति। मम संसदीयनिर्वाचनक्षेत्रस्य राजस्थानराज्ये स्थिते बून्दीजनपदे कजरीतीजपर्वणः विशेषं महत्त्वम् अस्ति। तीजपर्वणि बून्दीनगरे आयोज्यमानः पारम्परिकः मेलकः स्थानीयलोकसंस्कृतेः, कलायाः, उत्सवस्य उत्साहस्य तथा राजस्थानस्य जीवन्तपरम्परायाः भव्यं दर्शनं कारयति। अस्मिन् दिने मम एषा एव प्रार्थना अस्ति यत् मातुः पार्वत्याः भगवान् शिवस्य च आशीर्वादः सर्वेषु सदैव वर्तताम्। सर्वेषां कल्याणाय शुभकामनाः।

मान्यता अस्ति यत् हिन्दुधर्मस्य भाद्रपदमासे, दक्षिणभारतीयपरम्परायां श्रावणमासे च आचर्यमाणम् इदं पर्व आनन्दपूर्णैः दोलाभिः उत्सवपूर्णैश्च समारोहैः सह वर्षाकालस्य स्वागतं करोति। अस्य महोत्सवस्य नाम पारम्परिकस्य काजरीलोकसङ्गीतस्य नाम्नः आधारेण जातम्, यत् उत्तरप्रदेश-बिहारादिषु प्रदेशेषु विशेषरूपेण प्रचलति। एते मधुराः गीताः विरहभावं, प्रेमभावं तथा वर्षर्तोः सौन्दर्यं च अभिव्यञ्जयन्ति। श्रद्धालवः नीमवृक्षस्य ‘नीमडीमाता’ इति रूपेण पूजनं कुर्वन्ति तथा चन्द्रमसश्च पूजां कुर्वन्ति। सायंकाले सत्तुभक्षणेन व्रतस्य पारणं कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani