मायावत्याः लखनऊनगरे पदाधिकारिभिःसह उपवेशनम्, विधानसभोपवेशनमाधृत्य करोति चर्चाम्
लखनऊ, 31 अगस्तमासः (हि.स.)। बहुजनसमाजपार्टी इत्यस्याः राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती लखनऊनगरे बैठकं प्रारब्धवती बहुजनसमाजपार्टी इत्यस्याः राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती सोमवासरे लखनऊनगरस्य माल एवेन्यू-स्थिते दलस्य
मायावती का छायाचित्र


लखनऊ, 31 अगस्तमासः (हि.स.)।

बहुजनसमाजपार्टी इत्यस्याः राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती लखनऊनगरे बैठकं प्रारब्धवती

बहुजनसमाजपार्टी इत्यस्याः राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती सोमवासरे लखनऊनगरस्य माल एवेन्यू-स्थिते दलस्य राज्यप्रधानकार्यालये बैठकं प्रारब्धवती अस्ति। अस्यां बैठक्यां सा पूर्वतनगोष्ठ्यां प्रदत्तानां निर्देशानां कृतकार्याणां च समीक्षां करोति। अस्यां महत्त्वपूर्णायां बैठक्यां प्रदेशस्य सर्वे वरिष्ठपदाधिकारिणः, पञ्चसप्ततिमण्डलानां जिलाध्यक्षाः सहसमन्वयकाश्च सम्मिलिताः सन्ति।

मायावत्या पूर्वतनबैठक्यां उत्तरप्रदेशसहितेषु अन्येषु राज्येषु भाविषु विधानसभानिर्वाचनेषु निर्वाचनसज्जतायाः तथा प्रत्याशिनां चयनस्य विषये चर्चा कृता आसीत्। तत्र सा स्पष्टतया उक्तवती आसीत् यत् उत्तरप्रदेशस्य उत्तराखण्डराज्यस्य च अतिरिक्तं आगामीवर्षे पञ्जाबराज्ये आयोज्यमाने सामान्यविधानसभानिर्वाचनेऽपि कस्यचित् दलस्य सह गठबन्धनं न कृत्वा बहुजनसमाजपार्टी स्वतन्त्रतया निर्वाचनक्षेत्रे प्रवेक्ष्यति।

तया एतेषु निर्वाचनेषु दलस्य प्रति ईमानदारान् कर्मठांश्च प्रत्याशिनः चयनाय अपि निर्देशाः प्रदत्ताः आसन्। अद्य सोमवासरे आयोज्यमानायां गोषठ्याम् अस्मिन् विषयेऽपि चर्चा भवितुं सम्भावना अस्ति।

सम्प्रति प्रचलिता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani