सर्वकारीयविद्यालयेषु उद्घाटयिष्यन्ते ‘मेडिकलरूम’ कक्षाः, प्रायोगिकपरियोजनारूपेण १०० विद्यालयेषु प्रारभ्यते योजना
नवदिल्ली, ३१ अगस्तमासः (हि.स.)। दिल्लीसर्वकारेण छात्राणां सुरक्षां, प्राथमिकोपचारं, तेषां समग्रस्वास्थ्यं च सुदृढं कर्तुं सर्वकारीयविद्यालयेषु चिकित्सासुविधाः स्थापयितुं निर्णयः कृतः। अस्य प्रयत्स्य प्रारम्भः १०० सर्वकारीय-विद्यालयेषु प्रायोगिक-परि
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


नवदिल्ली, ३१ अगस्तमासः (हि.स.)। दिल्लीसर्वकारेण छात्राणां सुरक्षां, प्राथमिकोपचारं, तेषां समग्रस्वास्थ्यं च सुदृढं कर्तुं सर्वकारीयविद्यालयेषु चिकित्सासुविधाः स्थापयितुं निर्णयः कृतः। अस्य प्रयत्स्य प्रारम्भः १०० सर्वकारीय-विद्यालयेषु प्रायोगिक-परियोजनारूपेण भविष्यति। प्रायोगिक-परियोजनायाः परिणामस्य मूल्याङ्कनस्य च आधारेण एषा योजना चरणबद्धरूपेण १,०८६ सर्वकारीय-विद्यालयेषु विस्तारिताः भविष्यति।

मुख्यमन्त्री रेखागुप्ता अद्य विज्ञप्तिं निर्गमय्य अवदत् यत् अस्याः प्रयत्नस्य अन्तर्गतं सर्वकारीयविद्यालयेषु समर्पिताः ‘विद्यालय-चिकित्साकक्षाः’ स्थापिताः भविष्यन्ति। एतेषु चिकित्साकक्षेषु छात्रेभ्यः तत्कालं प्राथमिकोपचारः, अस्थायिविश्रामः, मूलभूतस्वास्थ्यसहायता, वयोऽनुकूलं स्वास्थ्यसम्बद्धं मार्गदर्शनं परामर्शश्च उपलब्धाः भविष्यन्ति। छात्राभ्यः मासिक-धर्मसम्बद्धायाः असुविधायाः समये चिकित्साकक्षे सुरक्षितं निजस्थानमपि उपलब्धं भविष्यति।

चिकित्साकक्षेषु प्राथमिकस्वास्थ्यसहायतां प्रदातुं प्रशिक्षितस्वास्थ्यकर्मचारिणां सेवाः अनुमोदित-बाह्यस्रोतव्यवस्थायाः माध्यमेन स्वीक्रियन्ते। स्वास्थ्यकर्मचारिणः प्राथमिक-उपचारं मूलभूतस्वास्थ्यसहायतां च प्रदास्यन्ति, छात्राणां परामर्शे च सहयोगं करिष्यन्ति। तदतिरिक्तं ते स्वास्थ्य-जागरूकतासम्बद्धासु गतिविधिषु सहाय्यं करिष्यन्ति तथा सम्बन्धितानाम् आवश्यकाभिलेखानां संरक्षणे अपि सहयोगं करिष्यन्ति।

मुख्यमन्त्री अवदत् यत् दिल्लीसर्वकारेण एषा पहल न्यूनव्ययस्य उच्चप्रभावस्य च व्यवस्थारूपेण सज्जीकृता अस्ति। अस्यै विद्यालयानाम् विद्यमानायाः आधारभूत-संरचनायाः उपयोगः क्रियते। योजनायाः प्रायोगिकक्रियान्वयनाय अस्मिन् वर्षस्य बजट-अनुमाने (बी.ई.) ५ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। प्रायोगिक-परियोजनायाः मूल्याङ्कनस्य परिणामानां च आधारेण अग्रिमेषु वर्षेषु योजनायै आवश्यकस्य अतिरिक्तधनराशेः प्रावधानं क्रियते।

अयं कार्यक्रमः राष्ट्रियशिक्षानीतेः (एनईपी) २०२० सुरक्षितस्य, समावेशिनः, स्वास्थ्यसहायकस्य च विद्यालयीय-वातावरणस्य दृष्टिकोणस्य अनुरूपः अस्ति। अस्य उद्देश्यं छात्राणां अध्ययनकार्ये जायमानं व्यवधानं न्यूनतमं कुर्वन् तेषां शारीरिकस्य भावनात्मकस्य च कल्याणस्य संवर्धनम् अस्ति।

प्रायोगिकपरियोजनायाः अन्तर्गतं प्रथम-चरणे १०० सर्वकारीयविद्यालयेषु चिकित्सा-कक्षाणां व्यवस्था प्रारभ्यते। तस्य परिणामस्य मूल्याङ्कनस्य च आधारेण एषा योजना चरणबद्धरूपेण १,०८६ सर्वकारीयविद्यालयेषु विस्तारिताः भविष्यति। अस्य प्रयत्नस्य माध्यमेन सर्वकारीयविद्यालयेषु छात्रेभ्यः प्राथमिक-उपचारः, मूलभूतस्वास्थ्यसहायता, स्वास्थ्यसम्बद्धं मार्गदर्शनं परामर्शश्च, आवश्यकतायां अस्थायिविश्रामस्य सुविधा च उपलब्धा भविष्यति। छात्राभ्यः मासिकधर्मसम्बन्धितायाः असुविधायाः समये सुरक्षितं निजस्थानमपि उपलब्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan