प्रधानमन्त्री मोदी बिश्केके महात्मागान्धिने श्रद्धाञ्जलिं समर्पितवान्, भारतसम्बन्धयुक्तैः जनैः सह अपि मिलितवान्
बिश्केक्, ३१ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे किर्गिजस्तानस्य राजधान्यां बिश्केके महात्मागान्धिनः प्रतिमायै पुष्पाञ्जलिं समर्प्य तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः अवदत् यत् गान्धीजीवर्यस्य विचाराणां अस्माकं मनसि मस्तिष्के च
प्रधानमंत्री नरेन्द्र मोदी सोमवार को किर्गिस्तान की राजधानी बिश्केक में भारत के साथ गहरा जुड़ाव रखने वालों के साथ मुलाकात के दौरान


बिश्केक्, ३१ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे किर्गिजस्तानस्य राजधान्यां बिश्केके महात्मागान्धिनः प्रतिमायै पुष्पाञ्जलिं समर्प्य तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः अवदत् यत् गान्धीजीवर्यस्य विचाराणां अस्माकं मनसि मस्तिष्के च सदैव अद्वितीयः प्रभावः भविष्यति।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र मिलनस्य चित्राणि सहभागीकृत्य अवदत् यत् तेन तादृशानां जनानां समूहः मिलितः, येषां भारतेन सह प्रगाढः सम्बन्धः अस्ति। तेषु प्रमुखाः भारतीयप्रवासिजनाः, पर्यावरणजागरूकाः जनाः, योगसाधकाः, शिक्षाविदः, भारतीय-तकनीकी-आर्थिक-सहयोगस्य पूर्वछात्राः शोधकर्तारश्च सम्मिलिताः आसन्।

मोदी भारतेन सह अस्य निरन्तर-सम्बन्धस्य विषये प्रसन्नतां व्यक्तवान्। सः विशेषरूपेण एकस्य योगसाधकस्य उल्लेखं कृतवान्, यः २०२६ तमे वर्षे अहमदाबादनगरे आयोजितायां प्रथमायां विश्वयोगासनप्रतियोगितायां सम्मिलितः अभवत् तथा च तत्र पदकं प्राप्तवान्। प्रधानमन्त्री अवदत् यत् भारतस्य पक्षतः योगस्य विश्वव्यापिप्रचाराय क्रियमाणानां प्रयासानां मध्ये एतादृशः सम्बन्धः उत्साहवर्धकः अस्ति।

मोदी अधुना किर्गिजस्तानस्य राष्ट्रपतिना सदिरजापारोवेन कृतस्य निमन्त्रणस्य अनुसारेण षड्विंशतितमे शाङ्घाईसहकार-सङ्घटनस्य शिखरसम्मेलने भागं ग्रहीतुं किर्गिजस्तानस्य यात्रायां वर्तते।

प्रधानमन्त्री मोदी २०१५ तमे वर्षे गान्धीजीवर्यस्य प्रतिमायाः अनावरणं कृतवान् आसीत्।

Hindusthan Samachar / Divya Ranjan