दिल्लीसर्वकारेण सौन्दर्यीकरणसम्बन्धे डिक्सन टेक्नोलॉजीज लिमिटेड् तथा कनोडिया ग्रुप इत्येताभ्यां सह सन्धिज्ञापनपत्रे हस्ताक्षरः कृतः
नवदिल्ली, ३१ अगस्तमासः (हि.स.)। स्वच्छां हरितां सुन्दरीं च राजधानीं निर्मातुं स्वसङ्कल्पं पुरस्कुर्वन् दिल्लीसर्वकारः डिक्सन टेक्नोलॉजीज लिमिटेड् तथा कनोडिया ग्रुप् इत्येताभ्यां सह सोमवासरे दिल्लीसचिवालये सन्धिज्ञापनपत्रे हस्ताक्षरं कृतवान्। अस्मिन
दिल्ली सचिवालय में  सोमवार को डिक्सन टेक्नोलॉजीज लिमिटेड और कनोडिया ग्रुप के साथ समझौता ज्ञापत  के दौरान दिल्ली की मुख्यमंत्री रेखा गुप्ता, लोक निर्माण मंत्री प्रवेश साहिब सिंह


नवदिल्ली, ३१ अगस्तमासः (हि.स.)। स्वच्छां हरितां सुन्दरीं च राजधानीं निर्मातुं स्वसङ्कल्पं पुरस्कुर्वन् दिल्लीसर्वकारः डिक्सन टेक्नोलॉजीज लिमिटेड् तथा कनोडिया ग्रुप् इत्येताभ्यां सह सोमवासरे दिल्लीसचिवालये सन्धिज्ञापनपत्रे हस्ताक्षरं कृतवान्। अस्मिन् अवसरे दिल्लीमुख्यमन्त्री रेखा गुप्ता, लोकनिर्माणमन्त्री प्रवेशसाहिबसिंहः तथा सम्बन्धितविभागानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।

मुख्यमन्त्री रेखा गुप्ता सामाजिकमाध्यमे ‘एक्स’ इति माध्यमस्य लेखे उक्तवती यत् अस्याः सहभागितायाः अन्तर्गतं सेतुपथानां अधः स्थितानां रिक्तस्थानानां सौन्दर्यीकरणं भविष्यति, पदपथानां स्वच्छता तथा उत्तमपरिपालनं क्रियते, हरितपट्टिकानां संवर्धनं भविष्यति तथा स्तम्भेषु भारतीयसंस्कृत्या, आधुनिक-कलया पर्यावरणसंरक्षणेन च सम्बद्धाः सन्देशाः अङ्किताः भविष्यन्ति।

अस्याः सहभागितायाः अन्तर्गतं डिक्सन टेक्नोलॉजीज लिमिटेड् तथा कनोडिया ग्रुप इत्येतौ दीपालीचौकसेतुपथस्य अधोभागस्य सौन्दर्यीकरणं विकासं च करिष्यतः। स्तम्भेषु भारतीयसंस्कृत्या, आधुनिककलया तथा पर्यावरणेन सम्बद्धानि चित्राणि अङ्कयिष्यतः। मथुरामार्गस्य एमपीमार्गस्य च हरित-पट्टिकायाः जीर्णोद्धारः, प्रदूषणनिवारकवृक्षैः सह बिन्दुसेचनस्य तथा वेष्टनस्थापनस्य व्यवस्था च करिष्यते।

निगमसामाजिकदायित्वस्य माध्यमेन क्रियमाणानि एतानि कार्याणि दिल्ली-नगरस्य सार्वजनिकस्थानानि अधिकानि स्वच्छानि, हरितानि, सुव्यवस्थितानि जनोपयोगीनि च कर्तुं सहायकानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan