ग्रामस्य, निर्धनानां, कृषकाणां सामान्यनागरिकाणां च जीवनं श्रेष्ठतरं कर्तुं सर्वकारः निरन्तरं कार्यं करोति – सिन्धिया
– केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धियया शिवपुरीजनपदे मार्गनिर्माणकार्याणां भूमिपूजनं कृतम् शिवपुरी, ३१ अगस्तमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् सर्वकारस्य मूलोद्देश्यं समाजस्य अन्तिमजनपर्यन्तं विकासस्य सुविधाः प
पिछोर में सड़कों के भूमिपूजन कार्यक्रम में केन्द्रीय मंत्री सिंधिया


पिछोर में उप तहसील के लोकार्पण कार्यक्रम में केन्द्रीय मंत्री सिंधिया हितलाभ वितरित करते हुए


– केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धियया शिवपुरीजनपदे मार्गनिर्माणकार्याणां भूमिपूजनं कृतम्

शिवपुरी, ३१ अगस्तमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् सर्वकारस्य मूलोद्देश्यं समाजस्य अन्तिमजनपर्यन्तं विकासस्य सुविधाः प्रापयितुम् अस्ति। प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे आधारभूतसुविधानां मार्गाणां च क्षेत्रे निरन्तरं कार्यं क्रियते। “सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासश्च” इत्यस्य भावनया सर्वकारः ग्रामस्य, निर्धनानां, कृषकाणां सामान्यनागरिकाणां च जीवनं श्रेष्ठतरं कर्तुं निरन्तरं कार्यं करोति।

केन्द्रीयमन्त्री सिन्धियः सोमवासरे मध्यप्रदेशस्य शिवपुरीजनपदे मार्गाणां भूमिपूजनकार्यक्रमं सम्बोधयन् एतत् अवदत्। अस्मिन् अवसरे तेन पिछोर-विधानसभाक्षेत्राय मार्गविकाससम्बद्धाः महत्त्वपूर्णाः उपहारा: प्रदत्ताः। तेन धपौरातः तैरईपर्यन्तं मार्गस्य तथा भगारी-रामपुर-टपरनमार्गस्य निर्माणकार्ययोः भूमिपूजनं कृतम्। एतयोः मार्गयोः निर्माणेन पिछोरविधानसभाक्षेत्रे यातायातव्यवस्था ग्राम्यसम्पर्कव्यवस्था च अधिकं सुदृढा भविष्यतः।

सिन्धियया धपौरातः तैरईपर्यन्तं मार्गस्य ३.१७ कोटिरूप्यकाणां व्ययेन क्रियमाणस्य निर्माणकार्यस्य भूमिपूजनं कृतम्। तेन सह भगारी-रामपुर-टपरनमार्गस्य ३.३० कोटिरूप्यकाणां व्ययेन क्रियमाणस्य निर्माणकार्यस्य अपि भूमिपूजनं कृतम्। एतेषां मार्गाणां निर्माणेन ग्रामीणक्षेत्रेषु यातायातव्यवस्था सुदृढा भविष्यति तथा जनाः विपणिं, शिक्षां, स्वास्थ्यसेवां अन्याः आवश्यकसेवाः च सुलभतया प्राप्तुं शक्नुवन्ति। उत्तममार्गसम्पर्कव्यवस्थया कृषकाः स्वोत्पादनं विपणिं प्रति नेतुं, छात्राः आवागमनं कर्तुं, ग्रामीणपरिवाराः आवश्यकसेवाः प्राप्तुं च सुविधां प्राप्स्यन्ति। क्षेत्रे मार्गजालस्य सुदृढीकरणेन स्थानीय-आर्थिकगतिविधीनाम् अपि नूतना गतिः भविष्यतीति अपेक्षा अस्ति।

अस्मिन् अवसरे सिन्धियः अवदत् यत् पिछोरविधानसभाक्षेत्रस्य आवश्यकतानां प्राथमिकतया विचारं कृत्वा विकासकार्येषु निरन्तरं गतिः प्रदीयते। अद्य मार्गसम्बद्धकार्याणां रूपेण प्रदत्त: उपहार: अस्याः प्रतिबद्धतायाः परिणामः अस्ति। अग्रिमकालेऽपि पिछोरविधानसभाक्षेत्राय विकासस्य नूतनाः उपहारा: निरन्तरं प्राप्स्यन्ते तथा क्षेत्रं प्रगतिसमृद्ध्योः दिशि निरन्तरम् अग्रे गमिष्यति।

पिछोरविधानसभाक्षेत्रे बामौरकलां-उप-तहसीलस्य पिपरा-विद्युत्उपकेन्द्रस्य च लोकार्पणम्

तदनन्तरं केन्द्रीयमन्त्री ज्योतिरादित्य-सिन्धिया पिछोरविधानसभाक्षेत्रस्य विकासाय गतिं प्रददन् बामौरकलांनगरे नवनिर्मितस्य उपतहसीलभवनस्य लोकार्पणं कृतवान्। प्रायः १.२४ कोटिरूप्यकाणां व्ययेन निर्मितस्य अस्य उपतहसीलस्य प्रारम्भेन क्षेत्रस्य ७० ग्रामाणां नागरिकाः प्रत्यक्षरूपेण लाभान्विताः भविष्यन्ति।

वस्तुतः स्थानीयनागरिकैः गतदिवसेषु जनश्रवणकार्यक्रमे क्षेत्रे उपतहसील-स्थापनस्य आग्रहः कृतः आसीत्। केन्द्रीयमन्त्रिणः सिन्धियस्य प्रयासैः एषा महत्त्वपूर्णा आवश्यकता पूरिता अस्ति। उपतहसीलस्य प्रारम्भेन क्षेत्रवासिभिः राजस्वसम्बद्धानां अन्येषां च प्रशासनिककार्याणां कृते दूरस्थस्थानानि गन्तुं न भविष्यति। अनेन समयस्य संसाधनानां च रक्षणं भविष्यति तथा जनानां समीपे एव प्रशासनिकसुविधाः उपलब्धाः भविष्यन्ति।

तदनन्तरं केन्द्रीयमन्त्री सिन्धिया पिछोरविधानसभाक्षेत्रस्य पिपराग्रामे १.४६ कोटिरूप्यकाणां व्ययेन निर्मितस्य विद्युत्-उपकेन्द्रस्य अपि लोकार्पणं कृतवान्। अस्य विद्युत्उपकेन्द्रस्य प्रारम्भेन क्षेत्रस्य नागरिकाः लाभान्विताः भविष्यन्ति। विद्युत्प्रदायव्यवस्थायाः सुदृढीकरणेन स्थानीयग्रामीणाः, कृषकाः अन्ये च उपभोक्तारः उत्तमां सुचारुरूपेण च विद्युत्प्रदायस्य सुविधां प्राप्स्यन्ति।

क्षेत्रवासिभिः उभयोः महत्त्वपूर्णयोः विकासकार्ययोः कृते केन्द्रीयमन्त्रिणः ज्योतिरादित्यसिन्धिया इत्यस्य आभारः प्रकटितः। तैः उक्तं यत् एताभिः परियोजनाभिः पिछोरविधानसभाक्षेत्रस्य विकासाय नूतना गतिः प्राप्स्यते तथा सामान्यजनाः सुविधाजनकाः सुलभाः च सेवाः प्राप्स्यन्ति।

कार्यक्रमे लाडलीलक्ष्मीयोजनायाः प्रमाण-पत्राणि तथा पञ्चरूप्यकेषु विद्युत्संयोजन-योजनायाः पत्राणि इत्यादीनि अन्यानि जनकल्याणकारीयोजनानां लाभाः अपि हितग्राहिभ्यः प्रदत्ताः। कार्यक्रमे पिछोर-विधानसभाक्षेत्रस्य विधायकः प्रीतमलोधी अपि उपस्थितः आसीत्।

Hindusthan Samachar / Divya Ranjan