Enter your Email Address to subscribe to our newsletters

शिवपुरी, 31 अगस्तमासः (हि.स.)। केन्द्रीयसञ्चार एवं पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिंधिया अद्य (सोमवासरे) आरभ्य मध्यप्रदेशस्य शिवपुरीजनपदस्य त्रिदिवसीयप्रवासे भविष्यन्ति। अस्मिन् प्रवासकाले ते शिवपुरी, कोलारस एवं पिछोरक्षेत्रेषु विभिन्नानां विकासकार्याणां लोकार्पणं, भूमिपूजनं तथा स्थानीयकार्यक्रमेषु सहभागितां करिष्यन्ति।
निर्धारितभ्रमणकार्यक्रमानुसारं केन्द्रीयमन्त्री सिंधिया अद्य पूर्वाह्णे 11.30 वादने अछरौनीग्रामं प्राप्स्यन्ति, यत्र अछरौनी प्राथमिकस्वास्थ्यकेन्द्रस्य तथा चमरौआग्रामस्य विद्युत्-उपकेन्द्रस्य लोकार्पणं करिष्यन्ति। ततः ते बामौरकलां प्राप्य नवनिर्मितस्य बामौरकलां उपतहसीलकार्यालयस्य तथा पिपराग्रामस्य विद्युत्-उपकेन्द्रस्य लोकार्पणं करिष्यन्ति।
तदनन्तरं सिंधिया खनियांधाने स्थानीयकार्यक्रमे भागं ग्रहीष्यन्ति। धपौराग्रामात् तेरईमार्गस्य तथा भगारीग्रामात् रामपुरा-टपरनमार्गस्य भूमिपूजनं करिष्यन्ति। ततः शिवपुरीस्थ हवाईपट्टिका, पीएसक्यू लाइन, यादवमोहल्ला, बड़ाबाजार, झांसीतिराहा तथा पोहरीमार्गे आयोजितेषु स्थानीयकार्यक्रमेषु सहभागितां करिष्यन्ति। अनन्तरं ते होटल पी.एस. रेसीडेन्सी इत्यत्र आयोजिते कैट ग्वालियर-चम्बलसम्भागीयव्यापार-उद्योगसम्मेलने भागं ग्रहीष्यन्ति।
केन्द्रीयमन्त्री सिंधिया आगामिदिने 01 सितम्बरदिने पॉलिटेक्निक महाविद्यालयस्य समीपे 50-शय्यायुक्तस्य अनुसूचितजातीयपूर्वमाध्यमिकबालकछात्रावासस्य तथा नगरपालिकायाः विभिन्नमार्गाणां भूमिपूजनं करिष्यन्ति। ततः ते नवविकसितस्य अमृतभारत-शिवपुरीरेलस्थानकस्य निरीक्षणं करिष्यन्ति तथा पोहरीरेलउपरिसेतोः निरीक्षणं करिष्यन्ति। अनन्तरं सिंहनिवास एवं रातौरक्षेत्रयोः स्थानीयकार्यक्रमेषु भागं ग्रहीष्यन्ति।
तदनन्तरं सिंधिया तानपुरे प्राथमिकस्वास्थ्यकेन्द्रस्य लोकार्पणं, सिंहनिवासग्रामस्य विद्युत्-उपकेन्द्रस्य लोकार्पणं, सिंहनिवासस्य शासकीयमाध्यमिकविद्यालयभवनस्य भूमिपूजनं तथा ठर्राउपतहसीलस्य लोकार्पणं करिष्यन्ति।
ततः ते पालीग्रामे पाली-राजगढ़मार्गस्य भूमिपूजनं, कुम्हरौआतः बागरोदमार्गस्य (पिपरौदामार्गेण) भूमिपूजनं करिष्यन्ति। कार्याग्रामे उच्चतरमाध्यमिकविद्यालयभवनस्य लोकार्पणं, खरईग्रामपञ्चायतभवनस्य लोकार्पणं तथा पड़ोराचौराहे आरसीसीमार्गस्य लोकार्पणं करिष्यन्ति। ततः लुकवासे स्थानीयकार्यक्रमे सहभागितां करिष्यन्ति तथा बिजरौनीबायपासमार्गस्य एवं दौलतपुरतः साईखेड़ामार्गस्य भूमिपूजनं करिष्यन्ति।
सिंधिया कोलारसे स्थानीयकार्यक्रमे भागं गृहीत्वा कोलारसरेलस्थानकात् उज्जयिनी एक्सप्रेस (14309/14310) इत्यस्य नूतनस्थानकविरामस्य ध्वजप्रदर्शनेन शुभारम्भं करिष्यन्ति। ततः ते शिवपुरीस्थिते टूरिस्ट विलेज इत्यत्र रात्रिविश्रामं करिष्यन्ति।
केन्द्रीयमन्त्री सिंधिया आगामिदिने 2 सितम्बरदिने प्रातः 10 वादनतः छत्रीमार्गे, सईसपुरायां तथा राघवेन्द्रनगरे शिवपुरीस्थलेषु स्थानीयकार्यक्रमेषु भागं ग्रहीष्यन्ति। ततः ते शिवपुरीकलेक्ट्रेटे डीवीएमसी अथवा दिशासमित्याः सभायां सहभागितां करिष्यन्ति।
तदनन्तरं ते शिवपुरीप्रधानडाकगृहस्य लोकार्पणं तथा ककरवायां (विधिमहाविद्यालयस्य समीपे) डाकप्रशिक्षणकेन्द्रस्य भूमिपूजनं करिष्यन्ति। ततः स्थानीयकार्यक्रमे सहभागितां कृत्वा ग्वालियरं प्रति प्रस्थानं करिष्यन्ति।
-----------------------------------
Hindusthan Samachar / Dheeraj Maithani