Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ‘एक्स’ इत्यत्र साझीकृते सुभाषिते मनुष्येण शुभानां कल्याणकारिणां च विचाराणामेव चिन्तनं करणीयम् इति विषये प्रकाशं नीतवान्।
प्रधानमन्त्री मोदी ‘एक्स’ इत्यत्र संस्कृतस्य एकं श्लोकं लिखितवान् यत्
“यद् यदेव प्रसक्तं हि वितर्कयति मानवः।
अभ्यासात् तेन तेनास्य नतिर्भवति चेतसः।। ”
अस्य भावार्थः अस्ति यत् मनुष्यः यस्मिन् विषये वा वस्तुनि वा पुनः पुनः चिन्तयति, तस्य मनः शनैः शनैः तस्यैव विषये आकर्षितं भवितुम् आरभते। अतः अस्माभिः सदैव उत्तमानां, शुभानां तथा कल्याणकारिणां विचाराणामेव चिन्तनं कर्तव्यम्।
---------------
Hindusthan Samachar / Dheeraj Maithani