Enter your Email Address to subscribe to our newsletters

नवदिल्ली 31 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी उज्बेकिस्तानस्य राजधानी ताश्कन्दनगरे स्थिते स्टेट् यूनिवर्सिटी ऑफ् ओरिएण्टल स्टडीज् इत्यत्र महात्मागान्धीकेन्द्रस्य भ्रमणं कृतवान्।
प्रधानमन्त्री मोदी सोमवासरे ‘एक्स’ इत्यत्र लिखितवान्—“रविवासरे ताश्कन्द स्टेट् यूनिवर्सिटी ऑफ् ओरिएण्टल स्टडीज् इत्यत्र महात्मागान्धीकेन्द्रस्य भ्रमणं अनेकाभिः दृष्टिभिः रोचकं जातम्। अत्र भारतीयविद्यायाः जीवन्तं वातावरणं दृष्टम्। भारतविषये पठितुं ज्ञातुं च जनानां मध्ये अत्यधिकः उत्साहः दृश्यते। अत्र गान्धिनः जीवने बहु कार्यं कृतम् अस्ति। अत्रत्येषु जनानां तमिलसंस्कृतेः विषये अपि रुचिः वर्धमाना अस्ति। अस्मिन् अवसरे छात्रैः मया रचितानां कवितानां कतिपयाः पङ्क्तयः अपि श्राविताः।”
उल्लेखनीयं यत् प्रधानमन्त्री मोदी शनिवासरात् उज्बेकिस्तान-किर्गिस्तानयोः चतुर्दिवसीययात्रायां वर्तते। अस्यां यात्रायां सः उज्बेकिस्तानस्य राष्ट्रपतिना शौकत् मिर्जियोयेवेन सह व्यापार-निवेशयोः, डिजिटलसम्पर्कस्य, रक्षाक्षेत्रस्य तथा ऊर्जाक्षेत्रस्य च सहयोगं अधिकं सुदृढं कर्तुं विषये चर्चां करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani