Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 31 अगस्तमासः (हि.स.)।
केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः अनेकाः नेतारः सोमवासरे पूर्वराष्ट्रपतिं भारतरत्नं च डॉ. प्रणबमुखर्जीम् तस्य पुण्यतिथौ भावपूर्णया श्रद्धाञ्जलिना स्मृतवन्तः।
अमितशाहः ‘एक्स्’ इत्यत्र लिखितवान्— “पूर्वराष्ट्रपतये भारतरत्नाय च डॉ. प्रणबमुखर्जिमहोदयाय तस्य पुण्यतिथौ श्रद्धाञ्जलिः। एकः उत्कृष्टः प्रशासकः विद्वान् च प्रणबदा सार्वजनिकजीवने स्वस्य दशकदीर्घयात्रायां देशस्य संवैधानिकमूल्यानां च प्रति अटूटां प्रतिबद्धतां प्रदर्शितवान्। तस्य अमिटं योगदानं नवनेतॄणां कृते अद्यापि प्रेरणास्रोतः अस्ति।”
रक्षामन्त्री राजनाथसिंहः उक्तवान्— “असाधारणप्रतिभासम्पन्नः विद्वान् राजनीतिज्ञश्च प्रणबदाः स्वबुद्धिमत्तया, राजनैतिकदूरदर्शितया, संसदीयपरम्पराणां गहनया अवबोधेन च भारतस्य सार्वजनिकजीवनं समृद्धं कृतवान्। विभिन्नविचारान् एकत्र आनेतुं राष्ट्रियमहत्त्वस्य विषयेषु च सर्वसम्मतिं निर्मातुं तस्य क्षमता तस्य विशिष्टस्य सार्वजनिकजीवनस्य परिचायकः आसीत्। राष्ट्राय तस्य समर्पितसेवा तथा भारतस्य लोकतान्त्रिकपरम्परासु तस्य अमूल्यं योगदानं सदा कृतज्ञतया स्मरिष्यते।”
केन्द्रीयमार्गपरिवहन-राजमार्गमन्त्री नितिनगडकरी उक्तवान्— “शिक्षाविदे प्री-प्राइमरी-शिक्षायाः अग्रगण्यायै पद्मभूषणपुरस्कारभाजे ताराबाईमोदकमहोदयायै तस्याः पुण्यतिथौ सादरं नमनम्।”
केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः उक्तवान्— “राष्ट्रस्य समाजस्य च उन्नत्यै समर्पितं भवतः जीवनं युवानां कृते सदैव प्रेरणास्रोतः भविष्यति। स्वकर्मभिः विचारैश्च भवान् देशवासिनां हृदयेषु सदैव जीविष्यति।”
केन्द्रीयसामाजिकन्याय-सशक्तीकरणमन्त्री वीरेन्द्रकुमारः उक्तवान्— “भारतीयराजनीतेः प्रतिष्ठितव्यक्तित्वाय, विद्वत्तायाः, सरलतायाः कर्मठतायाश्च प्रतीकाय, पूर्वराष्ट्रपतये ‘भारतरत्नाय’ प्रणबमुखर्जिमहोदयाय तस्य पुण्यतिथौ सादरं नमनम्। अनुभवीराजनीतिज्ञः, कुशलप्रशासकः, आर्थिकविशेषज्ञश्च भूत्वा राष्ट्रहितं सर्वोपरि निधाय लोकतान्त्रिकमूल्यानां संसदीयपरम्पराणां च सुदृढीकरणे भवतः अमूल्यं योगदानं सदैव स्मरणीयं भविष्यति।”
---------------
Hindusthan Samachar / Dheeraj Maithani