उत्तरप्रदेशस्य ऐतिहासिकी प्रगति:, जेम-माध्यमेन एकलक्षकोटिरूप्यकेभ्यः अधिकस्य क्रयणस्य कीर्तिमानम्, त्रिभिः राष्ट्रियपुरस्कारैः सम्मानितः
लखनऊम्, ३१ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण सार्वजनिक-क्रयव्यवस्थायां पुनरपि महत्त्वपूर्णा उपलब्धिः प्राप्ता। राज्येन गवर्नमेण्ट् ई-मार्केटप्लेस इत्यत्र २०१७ तमे वर्षे तस्य स्थापनातः आरभ्य अद्यावधि ए
देवरिया : मुख्यमंत्री योगी आदित्यनाथ के कार्यक्रम में उपस्थित जन समूह


लखनऊम्, ३१ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण सार्वजनिक-क्रयव्यवस्थायां पुनरपि महत्त्वपूर्णा उपलब्धिः प्राप्ता। राज्येन गवर्नमेण्ट् ई-मार्केटप्लेस इत्यत्र २०१७ तमे वर्षे तस्य स्थापनातः आरभ्य अद्यावधि एकलक्ष-कोटिरूप्यकाणाम् (₹१ ट्रिलियन) अधिकस्य क्रयणस्य अभिलेखः स्थापितः। देशस्य सर्वैः राज्यैः जेम-माध्यमेन कृतेषु समग्रक्रयेषु उत्तरप्रदेशस्य भागः ३० प्रतिशतादपि अधिकः अस्ति। एषा उपलब्धिः प्रदेशे अङ्कीयशासनस्य, पारदर्शितायाः, कार्यदक्षतायाः समावेशिप्रकारस्य च सार्वजनिकक्रयस्य संवर्धनस्य दिशि योगीसर्वकारस्य नीतिनां प्रभावशीलतां दर्शयति।

त्रिभिः राष्ट्रियपुरस्कारैः उत्तरप्रदेशस्य सम्मानम्

उत्तरप्रदेशस्य एषा उपलब्धिः राष्ट्रियस्तरेऽपि मान्यता प्राप्तवती। १० अगस्त २०२६ तमे दिनाङ्के नवदिल्ली इत्यस्य भारतमण्डपमिति स्थले आयोजिते जेम्-संस्थायाः दशमे स्थापनादिवस-समारोहे केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः सार्वजनिकक्रयस्य क्षेत्रे उत्कृष्टयोगदानाय उत्तरप्रदेशं त्रिभिः प्रतिष्ठितैः राष्ट्रियपुरस्कारैः सम्मानितवान्। उत्तरप्रदेशाय प्राप्तेषु पुरस्कारेषु जेम् समग्रोत्कृष्टतापुरस्कारः, सर्वोच्चजेम्-क्रयमूल्यपुरस्कारः तथा श्रेष्ठप्रसार-निर्माणपुरस्कारः इति प्रमुखाः सन्ति। एते पुरस्काराः उत्तरप्रदेशशासनस्य प्रमुख-सचिवेन शशिभूषणलालसुशीलेन प्राप्ताः।

योगीसर्वकारस्य सुशासनप्रतिरूपस्य महत्त्वपूर्णा उपलब्धिः

उत्तरप्रदेशस्य एषा उपलब्धिः केवलं सर्वकारीयक्रयस्य सङ्ख्यायां सीमिता नास्ति, अपि तु योगीसर्वकारस्य सुशासनस्य अङ्कीयशासनस्य च प्रतिरूपस्य महत्त्वपूर्णसफलतारूपेण दृश्यते। जेम्-इत्यस्य व्यापकप्रयोगेन सर्वकारीयविभागानां क्रयप्रक्रियां अधिकपारदर्शिनीं, प्रतिस्पर्धात्मिकां, सरलीकृतां उत्तरदायित्वपूर्णां च कर्तुं साहाय्यं प्राप्तम्। सर्वकारीयक्रये अङ्कीय-मञ्चस्य वर्धमानेन प्रयोगेन पारम्परिकप्रक्रियासु विद्यमानाः जटिलताः न्यूनीकर्तुं, अधिकेभ्यः विक्रेतृभ्यः प्रतिस्पर्धायै अवसरं प्रदातुं तथा च सर्वकारीयसंस्थाभ्यः उत्तममूल्येन गुणवत्तापूर्णानि उत्पादानि सेवाश्च उपलब्धं कर्तुं महत्त्वपूर्णं परिवर्तनम् अभवत्।

एकलक्षकोटिरूप्यकाणां क्रयणम् ‘धनस्य यथोचितमूल्यम्’

जेम्-माध्यमेन एकलक्षकोटिरूप्यकेभ्यः अधिकस्य क्रयणस्य तथ्यं दर्शयति यत् उत्तरप्रदेशस्य सर्वकारीयविभागैः सार्वजनिकसंस्थाभिश्च अङ्कीय-क्रयव्यवस्था बृहद्प्रमाणेन स्वीकृता अस्ति। अस्याः व्यवस्थायाः माध्यमेन क्रयप्रक्रियायां पारदर्शितां, प्रतिस्पर्धां, कार्यदक्षतां तथा ‘धनस्य यथोचितमूल्यम्’ इत्येतान् सुदृढीकर्तुं बलं दत्तम्। योगीसर्वकारस्य नीत्यनुसारं सर्वकारीयक्रयं अधिकं परिणामोन्मुखं कर्तुं सह लघुभ्यः स्थानीयव्यापारिभ्यश्च सर्वकारीयविपण्यं प्रति परिचयं प्रदातुं विशेषं ध्यानं दत्तम्।

एमएसएमई, महिला-उद्यमिभ्यः स्टार्टअप-संस्थाभ्यश्च अवसराः

जेम-माध्यमेन उत्तरप्रदेशेन सर्वकारीयक्रयं केवलं बृहद्व्यापारिभ्यः सीमितं न कृत्वा एमएसएमई-संस्थाभ्यः, महिलाभिः सञ्चालितेभ्यः उद्यमेभ्यः, अनुसूचितजाति-अनुसूचितजनजातिवर्गैः सञ्चालितेभ्यः उद्यमेभ्यः तथा स्टार्टअप-संस्थाभ्यश्च अवसराः विस्तारिताः। अस्याः व्यवस्थायाः माध्यमेन लघुउद्यमेभ्यः देशव्यापि-सर्वकारीयक्रेतृभ्यः सम्पर्कं स्थापयितुं अङ्कीयमञ्चः प्राप्तः। अनेन प्रदेशस्य स्थानीय-उद्यमिनां कृते सर्वकारीय-विपण्यस्य विस्तारः अभवत् तथा च राज्यस्य बहिः अपि स्वोत्पादानां सेवानाञ्च उपलब्धतां कर्तुं तेभ्यः अवसरः प्राप्तः।

क्षमतानिर्माणेऽपि बलम्

उत्तरप्रदेशस्य सफलतायां प्रशिक्षणस्य क्षमतानिर्माणस्य च महत्त्वपूर्णा भूमिका अभवत्। राज्ये समये समये अधिकारिभ्यः, विभागेभ्यः अन्येभ्यश्च हितधारकेभ्यः व्यापकप्रशिक्षणस्य जागरूकता-कार्यक्रमाणां च आयोजनं कृतम्, येन जेम्-सुविधानां प्रक्रियाणां च अधिकप्रभावीरूपेण उपयोगः कर्तुं शक्येत। अस्यैव दिशि कृतानां प्रयासानां ‘क्षमतानिर्माणाय श्रेष्ठप्रसारोपक्रमः’ इति राष्ट्रियपुरस्कारेण मान्यता प्राप्ता। उत्तरप्रदेशसर्वकारस्य जेम्-संस्थायाश्च मध्ये निरन्तरं वर्धमानः समन्वयः प्रदेशे सार्वजनिकक्रयस्य सुधारान् भूमिस्तर-पर्यन्तं नेतुं महत्त्वपूर्णां भूमिकां निर्वहति। अङ्कीयमञ्चस्य माध्यमेन क्रयप्रक्रियां अधिकं सरलां, पारदर्शिनीं, समावेशिनीं परिणामाधारितां च कर्तुं प्रयासाः निरन्तरं क्रियमाणाः सन्ति।

Hindusthan Samachar / Divya Ranjan