Enter your Email Address to subscribe to our newsletters

रायपुरम्, 31 अगस्तमासः (हि.स.)।छत्तीसगढे खनिजक्षेत्रस्य विकासं, निवेशं, महत्त्वपूर्णखनिजसंसाधनानां प्रभावी-दोहनं च प्रोत्साहयितुं भारतसर्वकारस्य खानिमन्त्रालयेन अद्य सोमवासरे नवारायपुरस्थिते मेफेयर् लेक् रिसोर्ट् इत्यत्र क्रिटिकल् तथा स्ट्रेटेजिक् मिनरल् ब्लॉक्स् इत्येतयोः अष्टमकिश्तस्य नीलाम्याः विषये रोड् शो इति कार्यक्रमः आयोज्यते। अस्य कार्यक्रमस्य मुख्यातिथिः मुख्यमन्त्री विष्णुदेवसायः भविष्यति।
कार्यक्रमे केन्द्रीयावासन-नगरीयकार्यराज्यमन्त्री तोखनसाहुः, केन्द्रीयकोयला-खानराज्यमन्त्री सतीशचन्द्रदुबे, छत्तीसगढखनिजविकासनिगमस्य अध्यक्षः सौरभसिंहः, राज्यस्य मुख्यसचिवः, खानिमन्त्रालयस्य वरिष्ठाधिकारिणः, केन्द्र-राज्यसर्वकारयोः अधिकारिणः, खननक्षेत्रस्य विशेषज्ञाः तथा उद्योगजगतः प्रतिनिधयः अपि सम्मिलिताः भविष्यन्ति।
भारतसर्वकारेण अष्टमकिश्तस्य अन्तर्गतं २० खनिजखण्डाः नीलाम्यै स्थापिताः सन्ति। एतेषु त्रयः माइनिङ्ग्-लीज़् तथा १७ कम्पोजिट्-लाइसेन्स्-खण्डाः सम्मिलिताः सन्ति। एतेषु खण्डेषु ग्रेफाइट्, रेअर्-अर्थ्-एलिमेण्ट्स्, रेअर्-मेटल्स्, वैनेडियम्, गैलियम्, टाइटेनियम्, मोलिब्डेनम् तथा टंग्स्टन् इत्यादयः बहवः महत्त्वपूर्णाः रणनीतिकाश्च खनिजाः सम्मिलिताः सन्ति। एते ऊर्जासुरक्षायै, आधुनिकप्रौद्योगिक्यै, औद्योगिकविकासाय तथा राष्ट्रस्य रणनीतिकावश्यकतानां पूर्तये महत्त्वपूर्णाः मन्यन्ते।
निर्धारितकार्यक्रमानुसारं प्रातः १० वादन ३० निमेषे पञ्जीकरणेन चायपानेन च कार्यक्रमस्य प्रारम्भः भविष्यति। मध्याह्ने १२ वादने मुख्यमन्त्रिणः आगमनानन्तरं दीपप्रज्वलनं, वन्देमातरम् तथा राष्ट्रगानं च भविष्यति। ततः खनिजसंसाधनविभागस्य सचिवः स्वागताभिभाषणं दास्यति। खानिमन्त्रालयस्य संयुक्तसचिवः, खानिसचिवः, राज्यस्य मुख्यसचिवः तथा छत्तीसगढखनिजविकासनिगमस्य अध्यक्षः अपि कार्यक्रमं सम्बोधयिष्यन्ति। तदनन्तरं केन्द्रीयराज्यमन्त्री तोखनसाहुः, केन्द्रीयराज्यमन्त्री सतीशचन्द्रदुबे तथा मुख्यमन्त्री विष्णुदेवसायः स्वकीयान् उद्बोधनान् दास्यन्ति।
रोड् शो इत्यस्य समये मुख्यमन्त्रिणः मुख्यातिथित्वे टिन्-पोर्टल् तथा ई-रेत-सांगवारी-पोर्टल् इत्येतयोः शुभारम्भः भविष्यति। अस्मिन् अवसरे छत्तीसगढखनिजविकासनिगमस्य इण्डियन ओवरसीज़् बैङ्क् इत्यनेन सह एमओयू इति सम्झापनपत्रस्य आदानप्रदानं तथा कोरन्डम्-छेदन-परिष्कार-प्रशिक्षणाय पण्डितरविशङ्करशुक्लविश्वविद्यालयेन सह एमओयू इति सम्झापनपत्रस्य आदानप्रदानं च भविष्यति।
तथैव लघुखनिजेषु प्रकाशितस्य पुस्तकस्य विमोचनं तथा त्रयाणां चूना-पाषाण-खनन-लीज़्-खण्डानां कृते एनआईटी इति नीलामिसूचनायाः प्रकाशनप्रक्रिया अपि सम्पन्ना भविष्यति।
Hindusthan Samachar / Dheeraj Maithani