Enter your Email Address to subscribe to our newsletters

टोरंटो (कनाडा), 31 अगस्तमासः(हि.स.)।
राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः डॉ. मोहनभागवतः अवदत् यत् भारतस्य मूलसंस्कृतेः सारः विश्वस्य साहाय्ये तस्य च ऐक्ये निहितः अस्ति। भारतीयपरम्परया सदा विविधता ऐक्यस्य स्वाभाविकं स्वरूपमिति दृष्टा अस्ति। सः एतानि उद्गारान् अत्र आयोजिते “हिन्दूविश्वबन्धु-मैत्र्यां विश्वम् आलिङ्गयन्तु” इति कार्यक्रमे व्यक्तवान्। ‘कैनेडियन हिन्दूज् फॉर आउटरीच्, रिलेशन्स् एण्ड् डायलॉग्’ इत्यस्य कार्यक्रमस्य प्रारम्भः सांस्कृतिकप्रस्तुत्या अभवत्।
स्वीयोद्बोधने परोपकारस्य भारतीयपरम्परां प्रति सः अवदत्— “यदा कदापि विश्वस्य कस्मादपि भागात् भारतात् साहाय्यं याचितम्, तदा भारतं कदापि न प्रत्याख्यातवान्। न केवलम् एतत्, अपितु भारतं याचनां विना अपि साहाय्यस्य हस्तं प्रसारितवान्। एषा एव अस्माकं परम्परा। एतदेव भारतस्य स्वभावगतं वैशिष्ट्यम् अस्ति। अत एव भवन्तः एतां लोकोक्तिं श्रुतवन्तः स्युः— ‘यदि हिन्दवः जागरिताः भवन्ति, तर्हि विश्वमपि जागरितं भवति।’”
स्वकीयविचारैः सः एतदपि स्पष्टं कृतवान् यत् भारतस्य आध्यात्मिकपरम्परा मानवतायाः प्रकृतेश्च मध्ये ऐक्यभावं कथं प्रवर्धयति।
डॉ. भागवत् अवदत् यत् “ते सजीवान् निर्जीवान् च उभयविधान् स्वकीयान् मन्यन्ते। तेभ्यः विविधतायाम् ऐक्यं द्रष्टुं शिक्षिता अस्ति। अत एव भारते विविधता कदापि ऐक्यस्य कृते समस्या न भवति। अस्माकं परम्परा अस्मान् शिक्षयति यत् न केवलं विविधतायाम् ऐक्यम् अस्ति, अपितु विविधता स्वयं ऐक्यस्य एकं स्वरूपम् अस्ति।”
सः वैश्विकसमुदायम् ‘वसुधैव कुटुम्बकम्’ इति प्राचीनविचारधाराम् अङ्गीकर्तुं आहूतवान्।
सङ्घप्रमुखः भागवतः एतद् बलपूर्वकं प्रतिपादितवान् यत् वास्तविकं ज्ञानं बाह्यभेदानाम् अतिक्रमणं कृत्वा मानवतायाः अन्तर्निहितम् आध्यात्मिकैक्यं ज्ञातुम् अस्ति। ये जनाः उदारविचारिणः चिन्तकाः च भवन्ति, ते ‘वसुधैव कुटुम्बकम्’ इति विचारम् अङ्गीकुर्वन्ति। ते मन्यन्ते यत् सम्पूर्णा पृथिवी एकं कुटुम्बम् अस्ति।
सः अवदत्— “यद्यपि भौतिकजगति जनाः शरीरस्य आकारेण वर्णरूपेण च परस्परं भिन्नाः भवितुम् अर्हन्ति, तथापि वस्तुतः वयं सर्वे एक एव स्मः। अतः अन्येषां सेवा अस्माकं कर्तव्यम् अस्ति। एतज्ज्ञानम् अस्माभिः प्राप्तम् अस्ति। एतदेव अस्मान् सदा आनन्दं सन्तोषं च ददाति।”
सरसङ्घचालकः भागवतः एतद् व्याख्यातवान् यत् ‘भारतः’ स्वस्य स्वभावेन चरित्रेण च विश्वगुरुः कथम् अभवत्, न तु महाशक्तिः। सः अवदत्— “तस्मिन् काले कोऽपि भारतं महाशक्तिम् इति कथयितुं शक्नोति स्म, किन्तु सः महाशक्तिः नासीत्। सः विश्वस्य सेवां कृतवान्। स्वस्य चरित्रेण सः विश्वगुरुः अभवत्, महाशक्तिः न। अतः भारतस्य उदयस्य तात्पर्यम् अस्ति— अधिकम् ऐक्यं, अधिका च मानवता।”
सः स्मारितवान् यत् अस्माकं पूर्वजानां लक्ष्यं विश्वाय ज्ञानं सभ्यतामूल्यानि च प्रदातुम् आसीत्।
डॉ. भागवत् अवदत्— “बहुकालपूर्वं यदा मार्गाः, नौकाः, विमानानि, मोटरयानानि वा न आसन्, तदा केवलं वृषभशकटानि अश्वाश्च आसन्। तस्मिन् काले अस्माकं पूर्वजाः मेक्सिकोदेशात् साइबेरियापर्यन्तं गतवन्तः तथा च तत्र जनान् ज्ञानं प्रदत्तवन्तः। ते पादाभ्यामेव हिमालयं अतिक्रम्य चीनदेशं, साइबेरियादेशं मङ्गोलियादेशं च गतवन्तः। लघुनौकाभिः ते दक्षिणपूर्व-एशियादेशान् गतवन्तः। प्रश्नः अस्ति—ते तत्र किं कृतवन्तः? ते कस्यापि देशस्य आधिपत्यं न गृहीतवन्तः। कस्यापि धर्मं न परिवर्तितवन्तः। ते यत्र यत्र गतवन्तः, तत्र तत्र ज्ञानं प्रदत्तवन्तः। ज्योतिषज्ञानं प्रदत्तवन्तः। आयुर्वेदज्ञानं प्रदत्तवन्तः। ते सभ्यतायाः मूल्यानि शिक्षितवन्तः।”
अस्मिन् कार्यक्रमे डॉ. भागवता सह कनाडादेशस्य पूर्वरक्षामन्त्री तथा अल्बर्टाप्रान्तस्य पूर्वमुख्यमन्त्री जेसन केनी अपि मञ्चं साझां कृतवान्। केनी इत्यनेन उभयोः देशयोः द्विपक्षीयसम्बन्धेषु वर्धमानस्य वेगस्य प्रशंसा कृता।
सः अवदत्— “कनाडा-भारतयोः सम्बन्धेषु नूतनां गतिं दृष्ट्वा अतीव प्रसन्नता भवति। अस्याः गतिः अस्मिन् वर्षस्य अन्ते प्रधानमन्त्री नरेन्द्रमोदिनः कनाडादेशस्य द्वितीययात्रया अनुभूयते।”
एतस्मात् पूर्वं टोरन्टोनगरं प्राप्ते सङ्घप्रमुखस्य भागवतः स्वागतं कृतम्। सम्पूर्णकनाडादेशात् हिन्दूसमुदायस्य जनाः उत्साहेन तस्य स्वागतार्थम् आगतवन्तः। ते भागवतः यात्रां शान्तेः, सांस्कृतिकमूल्यानां वैश्विकसद्भावस्य च संवर्धनस्य दिशि महत्त्वपूर्णं क्षणम् इति वर्णितवन्तः।
स्वागतार्थम् आगतः रॉयल कैनेडियन एयर फोर्स इत्यस्य पूर्वाधिकारी कार्तिकत्रिवेदी अवदत् यत् सः स्वकीयायां हिन्दुपरिचयाय गौरवं कुर्वन् पञ्चदशवर्षाणि यावत् कनाडादेशस्य सेवां कृतवान्।
ग्रेटर टोरन्टो एरिया हिन्दूसभामन्दिरस्य राजेन्द्रप्रसादः अवदत् यत् सङ्घप्रमुखस्य भागवतः यात्रा ‘वसुधैव कुटुम्बकम्’ इति सन्देशं प्रसारयति।
---------------
Hindusthan Samachar / Dheeraj Maithani