नवदिल्ली इत्यत्र सोमवासरे ‘समावेशोत्सवः’ आयोज्यते, देशस्य सर्वेभ्यः भागेभ्यः ७०० जनाः सहभागिनः भविष्यन्ति
नवदिल्ली, ३१ अगस्तमासः (हि.स.)। केन्द्रसर्वकारः मङ्गलवासरे नवदिल्लीस्थे डॉ. अम्बेडकर-अन्ताराष्ट्रिय-केन्द्रे ‘समा-वेशो-त्सवम्’ आयोजयिष्यति। अस्मिन् कार्यक्रमे देशस्य विभिन्नेभ्यः भागेभ्यः ७०० सामुदायिकनेतारः, शिल्पिनः लाभार्थिनश्च सहभागिनः भविष्यन्
प्रतीकात्मक


नवदिल्ली, ३१ अगस्तमासः (हि.स.)। केन्द्रसर्वकारः मङ्गलवासरे नवदिल्लीस्थे डॉ. अम्बेडकर-अन्ताराष्ट्रिय-केन्द्रे ‘समा-वेशो-त्सवम्’ आयोजयिष्यति। अस्मिन् कार्यक्रमे देशस्य विभिन्नेभ्यः भागेभ्यः ७०० सामुदायिकनेतारः, शिल्पिनः लाभार्थिनश्च सहभागिनः भविष्यन्ति इति सम्भाव्यते।

केन्द्रीय-सामाजिकन्याय-अधिकारिता-मन्त्रालयस्य अनुसारम् अस्य कार्यक्रमस्य आयोजनं मन्त्रालयस्य अधीनं सञ्चाल्य-मानेन विकास-कल्याण-मण्डलेन क्रियते। अस्य कार्यक्रमस्य उद्देश्यं अधि-सूचनाविहीनानां, यायावराणां, अर्ध-यायावराणां च समुदायानां समावेशनं, सशक्तीकरणं, प्रगतिं च प्रोत्साहयितुम् अस्ति। कार्यक्रमस्थले डीएनटी-शिल्पिनां विशेषप्रदर्शन्यः भारत-तुलिप्-हेरिटेज-स्टोर इत्यस्य च प्रकोष्ठाः स्थापिताः भविष्यन्ति, यत्र पारम्परिकशिल्पानि विविधाः उत्पादाश्च प्रदर्शिताः भविष्यन्ति। डीएनटी-समुदायानाम् आर्थिकसशक्ती-करणार्थं ‘एसईईडी’ योजनान्तर्गतं प्राप्तानां सफलताकथानां तथा केन्द्रसर्वकारस्य अन्यासां कल्याणकारीयोजनानां च विषये प्रकाशः क्षेप्स्यते।

अस्मिन् अवसरे मुख्यातिथिरूपेण केन्द्रीयमन्त्री डॉ. वीरेन्द्रकुमारः तथा केन्द्रीयः राज्यमन्त्री बी.एल. वर्मा च सहभागितां करिष्यतः। डीडब्ल्यू-बीडीएनसी-संस्थायाः वरिष्ठप्रतिनिधी भरतभाई बाबुभाई पटनी तथा प्रवीणः शिवाजीरावः घुगे इत्यादयः अपि कार्यक्रमे उपस्थिताः भविष्यन्ति।

उल्लेखनीयं यत् केन्द्रसर्वकारेण २१ फरवरी २०१९ दिनाङ्के अधिसूचना-विहीनानां, यायावराणां, अर्धयायावराणां च समुदायानां कल्याण-कारीकार्यक्रमाणां सुचारुरूपेण कार्यान्वयनाय डीडब्ल्यूबीडी-एनसी-संस्थायाः गठनं कृतम् आसीत्। तदतिरिक्तं, एतेषां समुदायानां समग्र-विकासं दृष्ट्वा शिक्षा, स्वास्थ्यं, आजीविका, आवासश्च इत्यादीनि क्षेत्राणि समावेश्य ‘सीड्’ योजना प्रारब्धा। सम्प्रति एषा योजना गुजरात-महाराष्ट्र-मध्यप्रदेश-राजस्थान-उत्तरप्रदेश-हरियाणा-तमिलनाडु-आन्ध्रप्रदेशेषु अष्टसु राज्येषु कार्यान्विता अस्ति, यत्र राज्यसर्वकारैः डीएनटी-प्रमाणपत्राणि प्रदीयन्ते।

Hindusthan Samachar / Divya Ranjan