विद्यालयेषु विद्यालयीयेषु च बसयानेषु बालकैः सह दुर्व्यवहारस्य दोषिषु कठोरकार्यवाहीं कर्तुं निर्देशः
मुख्यमन्त्रिण्या रेखागुप्तया बसयाने किशोर्याः बलात्कारस्य घटनायै दुःखं प्रकटितम्, अन्यराज्येभ्यः आगच्छतां बसयानानां जीपीएस्-व्यवस्थां दिल्ली-सर्वकारस्य प्रणाल्या सह संयोजयितुं सज्जता नवदिल्ली, ३१ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणी रेखागुप्ता विद्या
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


मुख्यमन्त्रिण्या रेखागुप्तया बसयाने किशोर्याः बलात्कारस्य घटनायै दुःखं प्रकटितम्, अन्यराज्येभ्यः आगच्छतां बसयानानां जीपीएस्-व्यवस्थां दिल्ली-सर्वकारस्य प्रणाल्या सह संयोजयितुं सज्जता

नवदिल्ली, ३१ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणी रेखागुप्ता विद्यालयेषु विद्यालयीयेषु च बसयानेषु बालकैः सह दुर्व्यवहारस्य घटनासु गहनं रोषं प्रकटयन्ती दोषिषु विद्यालयेषु कठोरकार्यवाहीं कर्तुं निर्देशान् दत्तवती। सा स्पष्टं कृतवती यत् एतादृशीषु घटनासु केवलं प्रत्यक्षदोषिणां विरुद्धमेव न, अपितु प्रमादं कुर्वतां विद्यालयप्रबन्धनस्य सम्बद्धानां उत्तरदायिजनानां च उत्तरदायित्वं निश्चितं करिष्यते।

मुख्यमन्त्रिणी अवदत् यत् विद्यालयं गच्छद्भिः निर्दोषैः बालकैः सह क्रियमाणः अमानवीयः व्यवहारः कस्यापि सभ्यसमाजस्य कृते अत्यन्तं पीडादायकः अस्ति। सर्वकारः एतादृशेषु प्रकरणेषु मौनं न स्थास्यति। सा अधिकारिभ्यः निर्देशं दत्तवती यत् बालकानां सुरक्षासम्बद्धेषु प्रकरणेषु तत्कालं कार्यवाहीं सुनिश्चितां क्रियेत तथा दोषिभ्यः विरुद्धं विध्यनुसारं कठोराः उपायाः क्रियेरन्।

जाफराबादस्थिते निजीदिवासेवा-केन्द्रे क्रीडाविद्यालये च त्रिवर्षीयबालकेण सह कथितस्य शारीरिकस्य यौनदुर्व्यवहारस्य च घटनायै मुख्यमन्त्रिणी गहनं रोषं प्रकटितवती। सा सम्बद्धं विद्यालयं मुद्राङ्कितुं निर्देशान् दत्तवती। मुख्यमन्त्रिणी अवदत् यत् विधिः स्वकार्यं करोति, किन्तु सर्वकारः अपि एतादृशेषु गम्भीरेषु प्रकरणेषु मूकदर्शकः न भविष्यति। सा इदमपि अवदत् यत् यदि पीडितबालकस्य परिवारेण विधिसम्बद्ध-सहायतायाः आवश्यकता भविष्यति, तर्हि दिल्लीसर्वकारः तस्मै आवश्यकां सहायतां प्रदास्यति।

मुख्यमन्त्रिणी बवानाक्षेत्रे त्रिवर्षीयायाः नर्सरीछात्रायाः यौनशोषणस्य घटनायै अपि गहनं दुःखं प्रकटितवती। अस्मिन् प्रकरणे विद्यालयीयबसचालकस्य कथित-सङ्लग्नतायां सा कठोरं रोषं प्रकटयन्ती विद्यालयप्रबन्धनस्य उत्तरदायित्वे प्रश्नं उत्थापितवती। सा अवदत् यत् विद्यालयप्रबन्धनेन एतत् सुनिश्चितं करणीयं यत् बालकानां आनीयनयनं कुर्वतां बसकर्मचारिणां समुचितपरीक्षणं निरीक्षणं च भवेत्। सा स्पष्टं कृतवती यत् भविष्ये कस्यापि विद्यालयीयबसस्य कर्मचारी एतादृशे प्रकरणे संलिप्तः दृश्यते चेत् सम्बद्धस्य विद्यालयप्रबन्धनस्य उत्तरदायित्वमपि निश्चितं करिष्यते। सर्वकारः एतत् सुनिश्चितं करिष्यति यत् विद्यालयेषु, दिवासेवाकेन्द्रेषु विद्यालयीयपरिवहनव्यवस्थायां च बालकानां सुरक्षायै निर्धारितानां दायित्वानां पूर्णतया पालनं भवेत् तथा प्रमादे ज्ञाते सति उत्तरदायिजनानां विरुद्धं कठोरकार्यवाहीं क्रियेत।

मुख्यमन्त्रिणी दिल्ली-एनसीआर-क्षेत्रे उत्तरप्रदेशस्य षोडशवर्षीयायाः किशोर्याः चलद्बसयाने बलात्कारस्य घटनायै अपि गहनं दुःखं प्रकटितवती। घटनायां बसचालकस्य परिचालकस्य च भूमिकायां चिन्तां प्रकटयन्ती सा अवदत् यत् एतादृश्यः घटनाः सम्पूर्णं सभ्यसमाजं विचालयन्ति। दिल्लीसर्वकारः अस्मिन् विषये समीपस्थराज्यसर्वकारैः सह अपि संवादं करिष्यति, येन दिल्लीं प्रति आगच्छत्सु दिल्लीं त्यजत्सु च बसयानेषु महिलानां बालकानां च सुरक्षा अधिकं सुदृढां कर्तुं शक्येत।

सा अवदत् यत् एतादृशी व्यवस्था विकसितुं कार्यं करिष्यते, यस्याः अन्तर्गतं अन्यराज्येभ्यः दिल्लीं प्रविशन्तीनां बसयानानां जीपीएस-व्यवस्था दिल्ली-सम्बद्धविभागस्य प्रणाल्या सह संयोजिता भवेत्। अनेन बसयानस्य स्थानस्य आवश्यकसूचनानां च निरीक्षणं कर्तुं शक्यते तथा आपत्कालीनस्थितौ शीघ्रकार्यवाहीं कर्तुं सहायता भविष्यति।

Hindusthan Samachar / Divya Ranjan