एशियाईक्रीडा - भवानी देव्याः अग्रगामितायां भारतस्य 20 सदस्यीयं तलवारबाजीदलं घोषितम्
नवदिल्ली, 31 अगस्तमासः (हि.स.)। ओलम्पिकक्रीडिका सी. ए. भवानी देवी आगामी एशियाक्रीडासमारोहाय घोषितस्य भारतस्य विंशतिसदस्यीयस्य खड्गक्रीडादलस्य नेतृत्वं करिष्यति। खड्गक्रीडासङ्घेन रविवासरे राष्ट्रियक्रमाङ्कनस्य तथा २०२६ तमे वर्षे प्रमुखेषु अन्ताराष्ट
भवानी देवी


नवदिल्ली, 31 अगस्तमासः (हि.स.)। ओलम्पिकक्रीडिका सी. ए. भवानी देवी आगामी एशियाक्रीडासमारोहाय घोषितस्य भारतस्य विंशतिसदस्यीयस्य खड्गक्रीडादलस्य नेतृत्वं करिष्यति। खड्गक्रीडासङ्घेन रविवासरे राष्ट्रियक्रमाङ्कनस्य तथा २०२६ तमे वर्षे प्रमुखेषु अन्ताराष्ट्रियप्रतियोगितासु क्रीडकानां प्रदर्शनस्य आधारेण दलस्य घोषणा कृता।

चयनिताः क्रीडकाः सितम्बरमासस्य प्रथमदिनात् पञ्चदशदिनाङ्कपर्यन्तं पटियालानगरे स्थिते नेताजीसुभाषराष्ट्रियक्रीडासंस्थाने राष्ट्रियप्रशिक्षणशिबिरे भागं गृह्णीयुः। ततः भारतीयदलम् सितम्बरमासस्य षोडशदिनाङ्के आइचीनागोयानगरं प्रति प्रस्थास्यति, यत्र प्रतियोगितायाः पूर्वं अन्तिमानुकूलनस्य प्रशिक्षणं भविष्यति।

दलस्य चयनं एशियायीयरिष्ठखड्गक्रीडाचषकप्रतियोगितायां, विश्वखड्गक्रीडाचषकप्रतियोगितायां तथा राष्ट्रमण्डलखड्गक्रीडाचषकप्रतियोगितायां क्रीडकानां प्रदर्शनम् अवलोक्य कृतम् अस्ति।

भवानीदेव्याः अन्तर्राष्ट्रीयस्पर्धायां पुनरागमनेन भारतस्य महिलासैबरदलस्य शक्तिः वर्धिता अस्ति। भारतीयखड्गक्रीडायाः अग्रगण्यासु क्रीडिकासु अन्तर्भूता भवानी अस्मिन् वर्षे एशियायीयरिष्ठखड्गक्रीडाचषकप्रतियोगितायाः समये द्विमासीयविरामस्य अनन्तरं स्पर्धात्मकासु प्रतियोगितासु पुनरागता आसीत्।

राष्ट्रमण्डलखड्गक्रीडाचषकप्रतियोगितायां उत्कृष्टं प्रदर्शनं कृतवद्भ्यः अनेकक्रीडकेभ्यः अपि भारतीयदले महती अपेक्षा अस्ति। महिलाएपे-वर्गे तनिक्षाखत्री प्राची लोहान् च क्रमशः सुवर्णपदकं कांस्यपदकं च प्राप्तवत्यौ।

पुरुषसैबर-वर्गे करणसिंहगुर्जरेण राष्ट्रमण्डलचषकप्रतियोगितायां सुवर्णपदकं विजित्य एशियाक्रीडासमारोहाय स्वस्य दावेदारी दृढीकृता।

तथैव पुरुषफॉयल-वर्गे तेजसमनोजपाटिले राष्ट्रमण्डलखड्गक्रीडाचषकप्रतियोगितायां कांस्यपदकं जित्वा इतिहासं रचितवान्। सः अस्यां प्रतियोगितायां वरिष्ठफॉयल-वर्गे पदकं प्राप्तवान् प्रथमः भारतीयखड्गक्रीडकः अभवत्।

भारतस्य विंशतिसदस्यीयं खड्गक्रीडादलम्

पुरुषफॉयल-वर्गः — सचिनः, सनासमहेमाशसिंहः, आदित्यः तथा तेजसमनोजपाटिलः।

महिलाफॉयल-वर्गः — जॉयसअशितास्टालिनराज्, नाओरेममीनादेवी, कनुप्रियाचावला तथा सोनियादेवीवैखोम।

महिलाएपे-वर्गः — तनिक्षाखत्री, प्राचीलोहान्, मित्वाचौधरी तथा यशकीरत्कौरहेयर्।

पुरुषसैबर-वर्गः — करणसिंहः, गिशोनिधिके.पी., लक्ष्यबादसरः तथा विशालथापरः।

महिलासैबर-वर्गः — भवानीदेवीसी.ए., श्रेयागुप्ता, जेफरलिन जे.एस. तथा श्रुतिजोशी।

-----------

Hindusthan Samachar / Dheeraj Maithani