‘कथयति स्म,अहं सर्वं जानाति ’, सहकारितां दृढीकर्तुं संदेशं दत्वा ममतायां शुभेंदोःप्रणोदः
कोलकाता, 31 अगस्तमासः (हि. स.)। ‘ सहकारिता एव वैकल्पिकार्थव्यवस्था अस्ति। सहकारिता सुदृढा भविष्यति चेत् आर्थिकविकासस्य नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति। सोमवासरे मध्यग्रामे महिलाभिः सञ्चालितायाः सहकारीसमित्याः कार्यक्रमे सम्मिलितः मुख्यमन्त्री
मुख्यमंत्री शुभेंदु अधिकारी एवं पूर्ववर्ती सरकार और ममता बनर्जी


कोलकाता, 31 अगस्तमासः (हि. स.)। ‘

सहकारिता एव वैकल्पिकार्थव्यवस्था अस्ति। सहकारिता सुदृढा भविष्यति चेत् आर्थिकविकासस्य नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति। सोमवासरे मध्यग्रामे महिलाभिः सञ्चालितायाः सहकारीसमित्याः कार्यक्रमे सम्मिलितः मुख्यमन्त्री शुभेन्द्वधिकारी राज्ये सहकारितान्दोलनं सुदृढं कर्तुं सन्देशं दत्तवान्। अस्मिन् अवसरे सः विगतेषु पञ्चदशवर्षेषु सहकारिताक्षेत्रस्य कथितोपेक्षां प्रति पूर्ववर्तिसर्वकारं ममताबनर्जीञ्च लक्ष्यीकृत्य आलोचनां कृतवान्।

शुभेन्द्वधिकारी उक्तवान्— “सम्बोधयित्वा अपि सा न अवगच्छति स्म। सा कथयति स्म यत् अहं सर्वं जानामि। अहं तु कथयामि यत् अहं किञ्चित् जानामि, किन्तु बहु किमपि अधुना अपि शिक्षमाणः अस्मि।”

मुख्यमन्त्री उक्तवान् यत् सहकारितान्दोलनम् एकं व्यापकं आर्थिकान्दोलनम् अस्ति तथा च पश्चिमबङ्गराज्ये तस्य अधिकं सुदृढीकरणस्य आवश्यकता अस्ति। सहकारितायाः विस्तारात् रोजगारस्य अवसराः वर्धिष्यन्ते तथा महिलानां सशक्तीकरणमपि भविष्यति।

सः आरोपितवान् यत् विगतेषु पञ्चदशवर्षेषु सहकारिताक्षेत्रस्य उपेक्षा अभवत्। तस्य मतानुसारं पूर्ववर्तिसर्वकारेण सहकारितायाः वास्तविकभूमिकां ज्ञातुं प्रयासः न कृतः। राज्यसहकारीबैंकतः आरभ्य प्राथमिकसहकारीसमितिपर्यन्तं बहुषु स्थानेषु अनेकवर्षेभ्यः निर्वाचनानि न अभवन् तथा सहकारिताक्षेत्रस्य प्रगतये पर्याप्तानि पदानि अपि न गृहीतानि।

मुख्यमन्त्री शुभेन्द्वधिकारी उक्तवान् यत् वर्तमानसर्वकारः सहकारिताक्षेत्रस्य प्रगत्यै सर्वसम्भवानि पदानि स्वीकरिष्यति। सः सहकारीसमित्याः निर्देशक-मण्डलाय द्वौ महत्त्वपूर्णौ सुझावौ अपि दत्तवान्। सः उक्तवान् यत् सहकारीसमितिषु ऋणप्रदाने ऋणवसूल्यां च नातेदारीभावात् राजनैतिकसङ्कीर्णतायाः च दूरं स्थातव्यम्। नातेदारी केवलं गृहे एव सीमिता भवेत्।

सः प्रतिवर्षं सितम्बरमासस्य अन्तर्गतमेव लेखापरीक्षणं पूर्णं कर्तुं परामर्शं दत्तवान्।

शुभेन्द्वधिकारेण दत्तः द्वितीयः सुझावः सहकारीसमितीनां प्रबन्धनव्ययं न्यूनीकर्तुम् आसीत्। सः उक्तवान् यत् अनावश्यकव्ययात् परिहर्तव्यम्। अतिथीनां स्वागतस्य नाम्ना विविधाः उपहाराः दातुं आवश्यकता नास्ति। सः सुझावं दत्तवान् यत् स्वागताय केवलम् एकमेव वस्तु दीयताम्— पुष्पदण्डिका, उत्तरीयं वा मातृमूर्तिः।

मुख्यमन्त्री उक्तवान् यत् एतादृशस्य अनावश्यकव्ययस्य भारः अन्ततः समितिसदस्यानां संस्थायाः च संसाधनेषु एव पतति। सः सहकारीसमितिभ्यः व्ययं न्यूनीकृत्य आर्थिकरूपेण सुदृढाः भवितुं आह्वानं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani