Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३१ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः अवदत् यत् वस्त्रपरिधानक्षेत्रं न केवलम् अस्माकं सांस्कृतिकपरम्परायाः अङ्गम् अस्ति, अपि तु कोटिशः देशवासिनां जीविकायाः आधारोऽपि अस्ति। यदा भवन्तः विदेशीयग्राहकेभ्यः वस्त्राणि सज्जीकुर्वन्ति, तदापि तेषु भारतस्य गन्धः सुगन्धिश्च न त्याज्यौ।
राष्ट्रपतिः मुर्मुः सोमवासरे दिल्ली इत्यत्र स्थितस्य राष्ट्रियफैशनप्रौद्योगिकीसंस्थानस्य संयुक्तदीक्षान्तसमारोहं-२०२६ सम्बोधयन्ती विद्यार्थिनः प्रेरयन्ती अवदत्— “भवतः चिन्तनं वैश्विकं भवेत्, किन्तु भवतां मूलानि स्वभूमेः विशिष्टतया जीवनमूल्यैश्च सम्बद्धानि तिष्ठन्तु। यदा भवन्तः विदेशीयग्राहकेभ्यः वस्त्राणि सज्जीकुर्वन्ति, तदापि तेषु भारतस्य गन्धः सुगन्धिश्च न त्याज्यौ। भवद्भिः तादृशस्य समाजस्य निर्माणे सहयोगः करणीयः, यस्मिन् प्रत्येकं नागरिकं राष्ट्रस्य प्रगतौ योगदानाय उचितान् अवसरान् प्राप्तुं शक्नुयात्। भवतां प्रयासेन शिल्पकारः स्वशिल्पस्य मूलपरिचयं संरक्षन् उत्पादकताम् आयं च वर्धयितुं साहाय्यं प्राप्नुयात्। अस्यामेव भवतां सफलता निहिता अस्ति।”
राष्ट्रपतिः महिलासशक्तीकरणस्य वर्धमानं प्रभावं रेखाङ्कयन्ती अवदत् यत् विंशतिवर्षपूर्वम् अस्मिन् क्षेत्रे महिलानां सहभागिता केवलं २० प्रतिशतं आसीत्, किन्तु अधुना उपस्थितेषु प्रायः चतुःसहस्रेषु विद्यार्थिषु ८५ प्रतिशतं महिलाः सन्ति। एषः परिवर्तनः विकसितस्य आत्मनिर्भरस्य च भारतस्य दिशि महत्त्वपूर्णा उपलब्धिः अस्ति। सा पर्यावरणसंरक्षणे ‘चक्राकार-अर्थव्यवस्थायाः’ च बलं ददती पश्चिमबङ्गस्य कान्थाकशीदाकार्यस्य बिहारस्य सुजनीकलायाश्च विशेषोल्लेखं कृतवती।
सा एतान् पारम्परिकशिल्पान् पुनर्चक्रणस्य उत्कृष्टोदाहरणरूपेण वर्णयन्ती अवदत् यत् या सामग्री अवशिष्यते, तां व्यर्थां मत्वा क्षिप्त्वा न, अपि तु तस्यै नूतनं रूपं, नूतनां उपयोगितां मूल्यं च प्रदातुमेव भारतीयपरम्परायाः मूलाधारः अस्ति। विद्यार्थिभ्यः स्थानीयकच्चामालस्य उपयोगेन पर्यावरणानुकूलानां उत्पादानां वैश्विकब्राण्ड इत्यादिनां च निर्माणस्य आह्वानं कृतम्।
२०४७ तमवर्षपर्यन्तं ‘विकसितभारतस्य’ लक्ष्यप्राप्तौ युवजनानां भूमिकां निर्णायकां वर्णयन्ती सा आह्वानं कृतवती यत् युवजनाः केवलं रोजगारान्वेषिणः न भवन्तु, अपि तु अन्येभ्यः रोजगारं प्रदातारो भवन्तु। तथा च ‘क्राफ्ट-क्लस्टर-उपक्रमः’ इत्यादीनां प्रयासानां माध्यमेन पारम्परिकाणां वयनकाराणां शिल्प-काराणां च मूलपरिचयं संरक्ष्य तेषाम् आयस्य उत्पादकतायाश्च वर्धने योगदानं ददतु।
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः विद्यार्थिभ्यः युवभ्यश्च सम्बोधयन् अवदत् यत् ते केवलं फैशन-डिजाइन अथवा फैशन-प्रदर्शनपर्यन्तं सीमिताः न सन्ति, अपि तु २०४७ तमवर्षस्य परिवर्तमानभारतस्य वास्तविकाः कर्णधाराः सन्ति। सः युवभ्यः आजीवनं शिक्षणस्य प्रवृत्तिं धारयितुं, मातापित्रोः सम्मानं कर्तुं राष्ट्रनिर्माणे च स्वयोगदानं दातुम् आह्वानं कृतवान्।
डॉ. कलामस्य विचारान् उद्धृत्य मन्त्री सिंहः अवदत् यत् व्यक्तिः केवलं पदवीं प्राप्तुं पर्यन्तं विद्यार्थी न भवति, अपि तु जीवनस्य अन्तिमयात्रापर्यन्तं शिक्षणप्रक्रिया प्रवर्तते। “स्वप्नं पश्यत, लक्ष्यं निर्धारयत, ज्ञानं प्राप्नुत, कठिनं परिश्रमं कुरुत, कदापि पराजयं मा स्वीकुरुत। भवतां चिन्तनं परिश्रमश्च देशस्य भविष्यं परिवर्तयितुं शक्नुतः।”
प्रधानमन्त्रिणः नरेन्द्रमोदिनः सन्देशस्य उल्लेखं कुर्वन् सः युवभ्यः अवदत्— “स्वलक्ष्यं महत् स्थापयत, परिश्रमं स्वाभ्यासं आत्मविश्वासं च स्वशक्तिं कुरुत। अन्यैः सह तुलनाकरणं त्यक्त्वा प्रतिदिनं स्वयमेव उत्तमतरं कर्तुं प्रयत्नं कुरुत।” सः विद्यार्थिभ्यः परीक्षासु, ताः शैक्षणिकाः जीवनसम्बद्धाः वा भवन्तु, चिन्तां न कर्तुं, असफलताभ्यः शिक्षितुं तथा प्रौद्योगिक्याः सदुपयोगेन देशस्य विकासे योगदानं दातुं परामर्शं दत्तवान्। सः युवानः प्रेरयन् अवदत् यत् ते कदापि तं स्थानं न विस्मरन्तु यत्र तान् नेतुं तेषां मातापित्रोः त्यागः कारणीभूतः अभवत्। तेषां सदैव सम्मानं कुर्वन्तु। सः विशेषतया अवदत् यत् २०४७ तमवर्षस्य विकसितभारतस्य बागडोर् अद्यतनयुवावंशस्य हस्तेषु अस्ति, अतः सर्वैः राष्ट्रस्य उज्ज्वलभविष्यस्य निर्माणाय सङ्कल्पः करणीयः।
सर्वैः विश्वासः व्यक्तः यत् युवजनाः स्वसृजनात्मकतया, उत्कृष्टतया सेवा-भावेन च उद्योगजगतः समस्यानां सफलतया सामना करिष्यन्ति तथा राष्ट्रनिर्माणे अग्रणीं भूमिकां निर्वक्ष्यन्ति।
अस्मिन् अवसरे राष्ट्रपतिः विभिन्न-परिसराणां प्रतिभाशालिनः छात्रान् छात्राश्च तेषाम् उत्कृष्टशैक्षणिकोपलब्धीनां कृते स्वर्णपदकैः सम्मानितवती। तेषु आशीषकामताप्रसादमिश्रः—मास्टर् ऑफ् डिजाइन (गान्धीनगरपरिसरः), देवांशमिश्रः—मास्टर् ऑफ् फैशनमैनेजमेण्ट् (भोपालपरिसरः), श्वेतामिश्रा—मास्टर् ऑफ् फैशनटेक्नोलॉजी (दिल्लिपरिसरः), रियाजी—बैचलर् ऑफ् फैशनटेक्नोलॉजी (चेन्नैपरिसरः), राजनकलप्रारम्भप्रवीणः—एक्सेसरीडिजाइन (भुवनेश्वरपरिसरः), तानिशीगर्गः—फैशनकम्युनिकेशन (पञ्चकुलापरिसरः), प्राचीकुल्हारी एस्.—फैशनडिजाइन (चेन्नैपरिसरः), वर्षितापी.—निटवेयरडिजाइन (चेन्नैपरिसरः), इल्माआमिर्—लेदरडिजाइन (दिल्लिपरिसरः) तथा रौनकरायः—टेक्सटाइलडिजाइन (कोलकातापरिसरः) सम्मिलिताः आसन्।
कार्यक्रमे केन्द्रीयवस्त्रसचिवा नीलम-शमीरावः, निफ्ट्-महानिदेशिका (डायरेक्टर् जनरल्) (आईएएस्) तनुकश्यपः, विशिष्टगणमान्याः व्यक्तयः, शासिमण्डलस्य सदस्याः, वरिष्ठा-धिकारिणः, सङ्कायसदस्याः, विद्वांसः तथा देशस्य अष्टादश निफ्ट्-परिसराणां स्नातकविद्यार्थिनः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan