Enter your Email Address to subscribe to our newsletters

-मुख्यमन्त्रिणः आवासात् तत्कालं चिकित्सालयं प्रेषिता पीडिता, प्रारब्धा चिकित्सा
लखनऊ, 31 अगस्तमासः (हि.स.)। ‘जनतादर्शने’ मुख्यमन्त्री योगी आदित्यनाथस्य मानवीयं रूपं दृष्ट्वा अन्ये आगन्तुकाः अपि तन्मयाः अभवन्। मुख्यमन्त्रिणः संवेदनशीलतां दृष्ट्वा कस्यचित् भावनाः अश्रुरूपेण निर्गताः, अपरः तु स्वकीयायाः आसनात् एव हस्तौ बद्ध्वा मुख्यमन्त्रिणः संवेदनशीलतायै कृतज्ञतां प्रकटितवान्।
वस्तुतः अयोध्यातः आगतौ एकः भ्राता भगिनी च ‘जनतादर्शने’ उपस्थितौ अभवताम्। भ्रात्रा मुख्यमन्त्रिणे निवेदितं यत् तस्य भगिनी गम्भीररोगेण पीडिता अस्ति। सः भगिनीं गृहीत्वा लखनऊम् आगतवान् अस्ति तथा च तस्यै शीघ्रमेव चिकित्सायाः आवश्यकता अस्ति। एतत् श्रुत्वा मुख्यमन्त्रिणा पीडितायाः तत्कालं लोहियारुग्णालये प्रवेशः कारितः, यत्र तस्याः चिकित्सापि प्रारब्धा अस्ति।
अयोध्यातः आगतः श्यामसोनकरः मुख्यमन्त्रिणे अवदत् यत् तस्य भगिनी बबिता कतिपयदिनानि यावत् अयोध्यायां चिकित्सालये प्रवेशिता आसीत्। चिकित्सकैः तां लखनऊं प्रति प्रेषितुं निर्दिष्टम् आसीत्। परिवारः अत्यन्तं निर्धनः अस्ति, अतः चिकित्सायाः व्ययस्य व्यवस्थायां कठिनतायाः सामना करणीयः भवति। एतत् ज्ञात्वा मुख्यमन्त्रिणा स्वकीयात् आवासात् तत्कालं पीडितां रुग्णवाहिकया गोमतीनगरे स्थिते डॉ. राममनोहरलोहियाआयुर्विज्ञानसंस्थाने प्रेषिता। मुख्यमन्त्रिणः निर्देशं प्राप्त्वा चिकित्सकानां निरीक्षणे रोगिण्याः चिकित्सा प्रारब्धा।
मुख्यमन्त्रिणा पीडितायाः परिजनानां कृते शीघ्रमेव आर्थिकसहायतां उपलब्धं करिष्यते इत्यपि आश्वासनं दत्तम्। भगिन्याः बबितायाः चिकित्सालये प्रवेशं सम्पन्नं भवितुमात्रेण तस्य भ्राता श्यामः निश्चिन्तः अभवत्। सः चिकित्सकेभ्यः रोगसम्बन्धिनीं सम्पूर्णां सूचनां विस्तरेण दत्तवान्। चिकित्साप्रक्रियायाः प्रारम्भे श्यामस्य नेत्राभ्यां अश्रूणि निर्गतानि। सः दूरभाषेण मुख्यमन्त्रिणः आवासं सूचितवान् तथा च धन्यवादं ज्ञापितवान्।
धनाभावात् न स्थास्यति कस्यापि चिकित्सा
‘जनतादर्शने’ बहवः जनाः चिकित्सार्थम् आर्थिकसहायतायाः याचनां कृत्वा उपस्थिताः अभवन्। मुख्यमन्त्री योगी आदित्यनाथः तान् आश्वासितवान् यत् सर्वकारः चिकित्सार्थं पर्याप्तां सहाय्यतां करिष्यति। तेषां प्रार्थनापत्राणि अधिकारिभ्यः प्रदाय मुख्यमन्त्रिणा निर्देशः दत्तः यत् चिकित्सासम्बद्धस्य व्यय-अनुमानस्य प्रक्रिया शीघ्रातिशीघ्रं पूर्णीकृत्य शासनाय प्रेष्यताम्। सः आश्वासितवान् यत् धनाभावस्य कारणेन कस्यापि जनस्य चिकित्सा न स्थास्यति।
चॉकलेटं प्राप्य प्रफुल्लिता अभवत् बालिका
‘जनतादर्शने’ एका बालिका स्वमात्रा सह आगता आसीत्। योगी आदित्यनाथः तस्याः मातुः समस्यां श्रुत्वा अनन्तरं बालिकया सह संवादं कृतवान् तथा च तां स्नेहेन दुलारितवान्। ततः मुख्यमन्त्रिणा चॉकलेट् आनीतं, तस्याः पुरतः एव तस्य आवरणं मोक्तुं प्रारब्धम्। मुख्यमन्त्रिणः हस्ते चॉकलेटं दृष्ट्वा बालिका हर्षेण खिलखिलायिता अभवत्। ‘बाबा’ इति मुख्यमन्त्रिणा सह बालिकायाः स्नेहपूर्णं संवादं दृष्ट्वा स्वीयं दुःखं विस्मृत्य पीडिताः अन्ये च जनाः अपि स्मितवन्तः।
Hindusthan Samachar / Dheeraj Maithani