Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 अगस्तमासः (हि.स.)। उत्तरप्रदेशविधानपरिषदः सभापतिः कुँवरमानवेन्द्रसिंहः सोमवासरे विधानभवनस्थिते सभापकक्षे वर्षद्वयस्य २०२६-२७ इत्यस्य कृते पुनर्गठितानां त्रयाणां स्थायीसमितीनां प्रथमां सभाम् सम्बोधितवान्।
सभां सम्बोधयन् विधानपरिषदः सभापतिः कुँवरमानवेन्द्रसिंहः अवदत् यत् एषा समितिः जनहिताय अत्यन्तमहत्त्वपूर्णा समितिरस्ति, या दलितानां, पीडितानां, शोषितानां तथा दुर्बलवर्गीयानां जनानां समस्यासु विचारं करोति। येभ्यः जनभ्यः न्यायः न प्राप्यते, तेभ्यः अस्याः समितेः माध्यमेन न्यायः प्राप्स्यते। विलम्बेन प्राप्तस्य न्यायस्य महत्त्वं न्यूनं भवति, अतः प्रकरणानां शीघ्रं निस्तारणं करणीयम्।
संसदीय-अध्ययनसमितिम् सम्बोधयन् सभापतिः अवदत्— “एषा अत्यन्तमहत्त्वपूर्णा समितिरस्ति, या अनेकानां प्रासङ्गिकानां महत्त्वपूर्णानां च संसदीय-संवैधानिकविषयाणाम् अध्ययनं कृत्वा प्रतिवेदनं सदने प्रस्तुतं करोति। अनेन संसदीय-लोकतान्त्रिकव्यवस्था लाभान्विता भवति तथा शोधार्थिनः अपि लाभं प्राप्नुवन्ति।”
प्रादेशिक-विद्युत्व्यवस्थासम्बन्धी-जाँचसमितौ विधानपरिषदः सभापतिः कुँवरमानवेन्द्रसिंहः अवदत् यत् प्रदेशे ग्रामीणेषु, नगरीयेषु तथा औद्योगिकेषु क्षेत्रेषु विद्युत्-उत्पादन-वितरणसम्बन्धीनां समस्याणां निराकरणाय अस्याः समितेः गठनं कृतम् अस्ति। एषा समितिः अत्यन्तमहत्त्वपूर्णा अस्ति तथा च सा प्रत्यक्षतया आमजनैः सह सम्बद्धा अस्ति। समितिः सम्बन्धितविभागस्य अधिकारिणः आमन्त्र्य तेषां साक्ष्यं गृहीत्वा जनसामान्यसम्बद्धानां प्रकरणानां निस्तारणं करोति। समितिः ऊर्जाविभागसम्बद्धान् सुझावान् अपि प्रतिवेदनस्य माध्यमेन सदने प्रस्तुतं कर्तुं शक्नोति।
सभापतिः अवदत् यत् अस्याः समितेः सर्वे माननीयसदस्याः योग्याः अनुभविनः च सन्ति। भवन्तः सर्वे मिलित्वा जनहितसम्बद्धानां ऊर्जावत् प्रमुखानां गम्भीरसमस्यानां निराकरणाय स्वीयैः सक्रियप्रयत्नैः सफलाः भवन्तु इति मम हार्दिकाः शुभकामनाः।
सभासु सर्वासां समितीनां सभापतयः, सर्वे सदस्याः, प्रमुखसचिवः डॉ० राजेशसिंहः तथा विधानपरिषदः अधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani