Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 31 अगस्तमासः (हि.स.)। देहरादूनजनपदस्य एकलव्य-आदर्श-आवासीयविद्यालयानां छात्रछात्राणां राष्ट्रपतिभवनस्य भ्रमणस्य अवसरः प्राप्तः
देहरादूनजनपदस्य एकलव्य-आदर्श-आवासीयविद्यालयः चकराता, मेहरावना तथा कालसी इत्येतेषां विद्यालयानां छात्रछात्रेभ्यः नवदिल्लीनगरे स्थितस्य राष्ट्रपतिभवनस्य भ्रमणस्य अवसरः प्राप्तः। त्रिदिवसीये अस्मिन् विशेषशैक्षणिकभ्रमणे प्रत्येकस्माद् विद्यालयात् पञ्च-पञ्च छात्रछात्राः सहभागितां कृतवन्तः।
जनपदजनजातिकल्याणाधिकारी, देहरादूनः सोमवासरे उक्तवान् यत् २८ तः ३० अगस्त् पर्यन्तम् आयोजितस्य भ्रमणस्य समये विद्यार्थिनः भारतस्य राष्ट्रपतिना श्रीमती द्रौपदीमुर्मू इत्यनया सह भेटं कृतवन्तः। राष्ट्रपतिना सह सम्पन्ना एषा आत्मीया प्रेरणादायिनी च भेटः विद्यार्थिनां कृते जीवनपर्यन्तं स्मरणीया अनुभूतिः अभवत्। राष्ट्रपतिना सह संवादेन विद्यार्थिषु आत्मविश्वासः, नवीनोत्साहः, देशस्य प्रति समर्पणस्य भावना च अधिकं प्रबला अभवत्।
भ्रमणस्य समये विद्यार्थिनः नवदिल्लीनगरस्य विभिन्नानां ऐतिहासिकानां, शैक्षणिकानां ज्ञानवर्धकानां च स्थलानाम् अपि अवलोकनं कृतवन्तः। अस्याः शैक्षणिकयात्रायाः माध्यमेन विद्यार्थिभ्यः कक्ष्यायाः पाठ्यपुस्तकानां च परे प्रत्यक्षानुभवस्य माध्यमेन देशस्य इतिहासं, संस्कृतिं, लोकतान्त्रिकव्यवस्थां राष्ट्रियविरासतं च अवगन्तुं अवसरः प्राप्तः।
जनपदजनजातिकल्याणाधिकारी, देहरादूनः उक्तवान् यत् एतादृशाः शैक्षणिकभ्रमणाः विद्यार्थिनां सर्वाङ्गीणविकासे, व्यक्तित्वनिर्माणे, राष्ट्रियचेतनायाः विस्ताराय च महत्त्वपूर्णां भूमिकां निर्वहन्ति। राष्ट्रपतिभवनस्य भ्रमणं राष्ट्रपतिना सह भेटश्च विद्यार्थिनां कृते न केवलं गौरवस्य विषयः अस्ति, अपितु तेषां उज्ज्वलभविष्याय प्रेरणायाः महत्त्वपूर्णः स्रोतः अपि भविष्यति।
Hindusthan Samachar / Dheeraj Maithani