भारत-रूसयोः सम्बन्धान् नूतनप्रौद्योगिक्या, व्यापारेण नवाचारेण च अग्रे नेतुं आवश्यकता - सुकान्तमजूमदारः
कोलकाता, ३१ अगस्तमासः (हि.स.)। भारतस्य रूसस्य च मध्ये दशकान् यावत् विद्यमानं विश्वासं सामरिकसहयोगं च नूतनप्रौद्योगिक्याः, नवाचारस्य, व्यापारस्य, विनिर्माणस्य, ऊर्जायाः, शिक्षायाः तथा जनानां परस्परसम्पर्कस्य नूतनावसरैः सह संयोजयितुं आवश्यकता अस्ति।
संपर्क कंक्लेव


कोलकाता, ३१ अगस्तमासः (हि.स.)। भारतस्य रूसस्य च मध्ये दशकान् यावत् विद्यमानं विश्वासं सामरिकसहयोगं च नूतनप्रौद्योगिक्याः, नवाचारस्य, व्यापारस्य, विनिर्माणस्य, ऊर्जायाः, शिक्षायाः तथा जनानां परस्परसम्पर्कस्य नूतनावसरैः सह संयोजयितुं आवश्यकता अस्ति। केन्द्रीयशिक्षा-पूर्वोत्तरक्षेत्र-विकास-राज्यमन्त्री सुकान्तमजूमदारः सोमवासरे कोलकातानगरे आयोजितं भारत-रूसद्विपक्षीयसम्मेलनं-२०२६ ‘सम्पर्कः’ सम्बोधयन् एतद् अवदत्।

सुकान्तमजूमदारः भारत-रूसयोः सम्बन्धान् ‘कालस्य कसौट्याम् उत्तीर्णा सहभागिता’ इति वर्णयन् अवदत् यत् परिवर्तमानस्य वैश्विकराजनैतिकस्य आर्थिकस्य च वातावरणस्य अनुरूपम् उभयोः देशयोः सम्बन्धानामपि कालेन सह विकासः आवश्यकः। सः अवदत् यत् दशकानां कालेन निर्मितः परस्परविश्वासः अस्याः सहभागितायाः महत्तमं बलम् अस्ति, किन्तु अधुना एकविंशतितमशताब्द्याः समस्यानां अवसराणां च अनुरूपं तां नूतनेषु क्षेत्रेषु नेतव्यम्।

सः अवदत् यत् भारतस्य औद्योगिकीकरणस्य प्रारम्भिककालात् आरभ्य विज्ञानस्य, प्रौद्योगिक्याः, अन्तरिक्षस्य रक्षाक्षेत्रस्य च पर्यन्तं रूसः तत्कालीनः सोवियतसङ्घश्च भारतस्य महत्त्वपूर्णौ सहयोगिनौ आस्ताम्। एषः ऐतिहासिकः आधारः उभयोः देशयोः सम्बन्धानां अग्रिमचरणं अधिक-महत्त्वाकाङ्क्षिपूर्णं कर्तुं दृढम् अवसरं प्रददाति।

मजूमदारः विनिर्माणं, रेलमार्गं, विमाननं, खननं, प्रौद्योगिकीम्, अनुसन्धानं नवाचारं च भारत-रूसयोः सहयोगस्य महत्त्वपूर्णानि क्षेत्राणि अवर्णयत्। सः अवदत् यत् सामरिकसहभागितया सह आर्थिक-सम्बन्धानामपि सुदृढीकरणं करणीयम् तथा च अस्मिन् उद्योगस्य निजिक्षेत्रस्य च सहभागिता वर्धनीया।

ऊर्जासहयोगं महत्त्वपूर्णं स्तम्भम् उक्त्वा सः परमाणुशक्तेः क्षेत्रे उभयोः देशयोः सहयोगस्य उल्लेखं कृतवान्। सः अवदत् यत् विद्यमानाः परियोजनाः अग्रे वर्धयित्वा उन्नतपरमाणुप्रौद्योगिक्याः, लघुमॉड्यूलर-परमाणुरिएक्टर इत्यादीनां नूतनक्षेत्राणां सम्भावनानामपि अन्वेषणं करणीयम्।

केन्द्रीयमन्त्रिणा विश्वविद्यालयानां, अनुसन्धानसंस्थानां, वैज्ञानिकानां, विद्यार्थिनां युवा-नवोन्मेषकाणां च मध्ये सहयोगं वर्धयितुं बलं दत्तम्। सः अवदत् यत् भारत-रूसयोः सम्बन्धाः केवलं सर्वकारयोः मध्ये सम्पर्कपर्यन्तं सीमिताः न भवितुम् अर्हन्ति। विश्वविद्यालयैः, शोधकर्तृभिः, उद्यमिभिः युवभिश्च अस्यां सहभागितायां सक्रियभागः स्वीकरणीयः।

केन्द्रीयमन्त्री कोलकातानगरस्य ऐतिहासिकबौद्धिकीं सांस्कृतिकीं च भूमिकां निर्दिश्य अवदत् यत् नगरम् भारतस्य रूसस्य च मध्ये नूतनसंवादस्य सहयोगस्य च महत्त्वपूर्णं केन्द्रं भवितुम् अर्हति। शिक्षायाः, भाषायाः, साहित्यस्य सांस्कृतिकाध्ययनस्य च क्षेत्रेषु सहयोगं वर्धयित्वा उभयोः देशयोः नववंशयो: मध्ये सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan