युवान: स्वकीयां चिन्तनशक्तिं सामर्थ्यं प्रतिभां ज्ञानं च सदैव राष्ट्रहिते प्रयुञ्जताम् – विश्वविजयतोमरः
बीजापुरम्, ३१ अगस्तमासः (हि.स.)। छत्तीसगढस्य युवकेषु नवीनशक्तेः, सकारात्मकचिन्तनस्य नेतृत्वक्षमतायाश्च प्रोत्साहनस्य उद्देश्येन आयोजितस्य ‘युव-उडान-२०२६’ इति कार्यक्रमस्य शुभारम्भः अद्य सोमवासरे बीजापुरजनपदस्य नवोदयविद्यालयपरिसरे अभवत्। छत्तीसगढयु
युवा अपनी सोच, ताकत, प्रतिभा व ज्ञान का सदैव राष्ट्रहित में उपयोग करें - विश्वविजय तोमर


बीजापुरम्, ३१ अगस्तमासः (हि.स.)। छत्तीसगढस्य युवकेषु नवीनशक्तेः, सकारात्मकचिन्तनस्य नेतृत्वक्षमतायाश्च प्रोत्साहनस्य उद्देश्येन आयोजितस्य ‘युव-उडान-२०२६’ इति कार्यक्रमस्य शुभारम्भः अद्य सोमवासरे बीजापुरजनपदस्य नवोदयविद्यालयपरिसरे अभवत्।

छत्तीसगढयुव-आयोगस्य अध्यक्षस्य विश्वविजयतोमरस्य अध्यक्षतायाम् आयोजिते कार्यक्रमे सम्पूर्णजनपदात् सहस्रशः युवभिः उत्साहपूर्वकं सहभागिता कृता। कार्यक्रमस्य माध्यमेन युवभ्यः देशस्य, प्रदेशस्य समाजस्य च विकासे तेषां महत्त्वपूर्णां भूमिकां विषये अवगतं कारितम्। कार्यक्रमे केन्द्रस्य राज्यस्य च सर्वकारयोः उपलब्धीनां (युवभ्यः क्रियमाणानां कार्याणाम्), ‘एकदेशः एकनिर्वाचनम्’, ‘विकसितछत्तीसगढः-विकसितभारतः’ इत्यस्मिन् विषये युवानां भूमिकायाः च विषये विशेषज्ञवक्तृभिः युवभिः सह संवादः कृतः। युवभिः संवादस्य समये स्वविचाराः प्रस्तुताः तथा विभिन्नेषु विषयेषु प्रश्नान् पृष्ट्वा विशेषज्ञेभ्यः मार्गदर्शनं प्राप्तम्।

युवा-आयोगस्य अध्यक्षः विश्वविजयतोमरः युवानः सम्बोधयन् अवदत् यत् युवशक्तिः देशस्य सर्वबृहती शक्तिः अस्ति। युवभिः स्वकीयां ऊर्जां सामर्थ्यं च सकारात्मकदिशि नियोज्य लक्ष्यं निर्धारित्य अग्रे गन्तव्यम्। सः युवभ्यः अवदत् यत् ते स्वकीयां चिन्तनशक्तिं, शक्तिं, प्रतिभां ज्ञानं च सदैव राष्ट्रहिते प्रयुञ्जताम्। सः प्रधानमन्त्री नरेन्द्रमोदिनः ‘विकसितभारत-२०४७’ इति सङ्कल्पस्य उल्लेखं कुर्वन् अवदत् यत् भारतं विकसितराष्ट्रं कर्तुं यूनां भूमिका सर्वाधिकं महत्त्वपूर्णा भविष्यति। सः युवानः स्वपरिवारस्य, समाजस्य, देशस्य भारतीयसंस्कृतेश्च गौरवं कर्तुं तथा स्वदायित्वानि अवगत्य राष्ट्रनिर्माणे सक्रियसहभागितां कर्तुं प्रेरितवान्।

बीजापुरस्य जनपदाधिकारी विश्वदीपः अवदत् यत् बीजापुरजनपदः अधुना नूतनचिन्तनेन, नूतनशक्त्या नूतना-त्मविश्वासेन च अग्रे गच्छति। दीर्घकालं यावत् माओवादस्य आव्हानेन प्रभावितः आसीत् अयं जनपदः अद्य विकासस्य परिवर्तनस्य च नूतनां दिशां प्राप्तवान् अस्ति। जनपदे शान्तेः विकासस्य च वातावरणं सुदृढं जातम् तथा युवभ्यः शिक्षायाः, क्रीडायाः रोजगारस्य च नूतनाः अवसराः प्रादुर्भवन्ति। सः अवदत् यत् बीजापुरस्य युवकेषु अद्भुता प्रतिभा क्षमता च अस्ति। जनपदस्य युवभिः शिक्षायां, प्रतियोगिपरीक्षासु क्रीडाक्षेत्रे च स्वप्रतिभायाः प्रदर्शनं कृत्वा नूतन: परिचय: निर्मित: अस्ति। अधुना एव जनपदस्य एकस्य युवानः भारतीय-आरक्षक-सेवायां चयनं, विद्यार्थिनां परीक्षासु सफलताप्राप्तिः तथा बीजापुरस्य क्रीडकाणां राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च जनपदस्य नाम उज्ज्वलीकरणम् अस्य उदाहरणानि सन्ति। जनपदाधिकारी युवभ्यः अवदत् यत् ते स्वप्रतिभां परिचिन्वन्तु, निरन्तरं परिश्रमं कुर्वन्तु तथा स्वप्नानि लक्ष्येषु परिवर्त्य अग्रे गच्छन्तु। सः अवदत् यत् बीजापुरस्य युवा अधुना केवलं चुनौतीनां परिचायकः न, अपितु सम्भावनानाम् उपलब्धीनां च नूतनां कथां लिखति।

बीजापुरस्य आरक्षकाधीक्षकः उमेश-प्रसादगुप्तः युवानः सम्बोधयन् अवदत् यत् युवानः देशस्य समाजस्य च भविष्यस्य निर्मातारः सन्ति। सः युवभ्यः मादकद्रव्यसेवनात् दूरं स्थातुं तथा नशामुक्तसमाजस्य निर्माणाय सञ्चाल्य-माने जागरूकताभियाने सक्रिय-सहभागितां कर्तुम् आह्वानं कृतवान्। सः अवदत् यत् मादकद्रव्यसेवनस्य दुष्प्रभावेन न केवलं व्यक्तिः, अपितु सम्पूर्णः परिवारः समाजश्च प्रभावितः भवति। अतः युवभिः स्वयं जागरूकैः भूत्वा स्वपरितः स्थितान् जनान् अपि मादकद्रव्यसेवनस्य दुष्प्रभावान् प्रति जागरूकं कर्तव्यम्।

‘युव-उडान-२०२६’ कार्यक्रमे युवभ्यः स्वविचारान् प्रस्तुतुं सुझावान् च दातुं विशेषः अवसरः प्रदत्तः। कार्यक्रमे युवभिः सुझावपत्रस्य माध्यमेन स्वविचाराः सुझावाश्च प्रस्तुताः। कार्यक्रमे नगर-पालिकाध्यक्षः गीता सोमपुजारी तथा वरिष्ठनागरिकः घासीरामनागः अपि युवानः सम्बोध्य तान् जीवने सकारात्मक-चिन्तनेन, अनुशासनेन, परिश्रमेण सामाजिकदायित्वैश्च सह अग्रे गन्तुं प्रेरितवन्तौ। अस्मिन् अवसरे राज्यस्तरीया-लङ्कारेण सम्मानिताः उत्कृष्टाः क्रीडकाः च सम्मानिताः।

कार्यक्रमे जनपदपञ्चायत्-सदस्यः मैथियसकुजूरः, जनपदपञ्चायतः मुख्य-कार्यपालनाधिकारी नम्रताचौबे, संयुक्त-जनपदाधिकारी जागेश्वरकौशलः, संयुक्त-जनपदाधिकारी जनपदाक्रीडाधिकारी च उत्तमसिंहपञ्चारी इत्येतेषां सहितं जनपदप्रशासनस्य वरिष्ठाः अधिकारिणः, जनप्रतिनिधयः तथा जनपदस्य बहुसंख्यकाः युवानः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan