नक्सल मोर्चामध्ये उत्कृष्टायै सेवायै दंतेवाड़ायाः 14 आरक्ष्यधिकारिणस्सम्मानिताः
दंतेवाड़ा, 05 अगस्तमासः (हि.स.)। नक्सलप्रभाविते बस्तरक्षेत्रे शान्तिसुरक्षयोः रक्षणार्थं संघर्षं कुर्वतां दन्तेवाडापुलिसविभागस्य अधिकारिणां उत्कृष्टकार्याणां कृते केन्द्रीयगृहमन्त्रिणा अमितशाहेन प्रदत्तेन सम्मानेन दन्तेवाडापुलिसविभागस्य चतुर्दश अ
नक्सल मोर्चे पर उत्कृष्ट सेवा के लिए दंतेवाड़ा के 14 पुलिस अधिकारी सम्मानित


दंतेवाड़ा, 05 अगस्तमासः (हि.स.)।

नक्सलप्रभाविते बस्तरक्षेत्रे शान्तिसुरक्षयोः रक्षणार्थं संघर्षं कुर्वतां दन्तेवाडापुलिसविभागस्य अधिकारिणां उत्कृष्टकार्याणां कृते केन्द्रीयगृहमन्त्रिणा अमितशाहेन प्रदत्तेन सम्मानेन दन्तेवाडापुलिसविभागस्य चतुर्दश अधिकारिणः सम्मानिताः अभवन्। अस्यैव क्रमस्य अन्तर्गतं अद्य बुधवासरे दन्तेवाडापुलिसअधीक्षकः चन्द्रमोहनसिंहः जनपदस्य सम्मानितान् पुलिसअधिकारिणः सम्मानयित्वा तेषाम् उत्साहवर्धनम् अकरोत्। अस्मिन्नवसरे पुलिसअधिकारिणां साहसं कर्तव्यनिष्ठा अनुशासनं कठिनपरिस्थितिषु कृतानि उत्कृष्टकार्याणि च प्रशंसितानि।

सम्मानितेषु अधिकारिषु अतिरिक्तपुलिसअधीक्षकः जितेन्द्रखुण्टे अतिरिक्तपुलिसअधीक्षकः आर के बर्मन उपपुलिसअधीक्षकः राहुलउइके उपपुलिसअधीक्षकः जितेन्द्रकुम्भकारः रक्षितनिरीक्षकः सुशीलनौटियालः निरीक्षकः मुकेशताती निरीक्षकः संजयपोटाम निरीक्षकः सन्तोषहेमला निरीक्षकः चैतरामगुरुपञ्चः निरीक्षकः रामअवतारपटेलः उपनिरीक्षकः हजारीलालमौर्यः उपनिरीक्षकः लोचनपैकरा उपनिरीक्षकः कोसाकुञ्जाम च समाविष्टाः।

दन्तेवाडा इव नक्सलप्रभाविते जनपदे पुलिसअधिकारिणां समक्षं चुनौती केवलं विधिव्यवस्थापर्यन्तं सीमिता नास्ति अपितु दुर्गमप्रदेशेषु अभियानसञ्चालनम् ग्रामीणक्षेत्रेषु सुरक्षायाः सुनिश्चितीकरणम् जनविश्वासस्य स्थापनम् नक्सलप्रभावस्य समूलोन्मूलनम् इत्यादयः बहवः उत्तरदायित्वविशेषाः अपि सन्ति। एतादृशे चुनौतीपूर्णे परिवेशे उत्कृष्टसेवाभ्यः प्राप्तः अयं सम्मानः पुलिसअधिकारिणां कृते विशेषमहत्त्वम् आवहति।

अस्मिन्नवसरे दन्तेवाडापुलिसअधीक्षकः चन्द्रमोहनसिंहः सर्वान् सम्मानितान् अधिकारिणः अभिनन्दनं शुभकामनाश्च अददात्। तेन उक्तं यत् अयं सम्मानः केवलस्य एकस्य अधिकारिणः उपलब्धिः नास्ति अपितु सम्पूर्णस्य पुलिसदलस्य कर्तव्यनिष्ठायाः साहसस्य अनुशासनस्य समर्पणस्य च प्रतीकः अस्ति। तेन पुनरुक्तं यत् दन्तेवाडापुलिसविभागः अग्रे अपि सामान्यजनानां सुरक्षा शान्तिः विश्वासश्च सर्वोच्चप्राथमिकतया स्वीकृत्य नक्सलोन्मूलनस्य जनसेवायाश्च कार्याणि पूर्णनिष्ठया निरन्तरं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani