Enter your Email Address to subscribe to our newsletters


रायपुरम्, ०५ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः विष्णुदेव-सायस्य नेतृत्वे सञ्चालितायाः श्रीरामलला-दर्शन-योजनायाः अन्तर्गतं जशपुर-जनपदस्य श्रद्धालवः अयोध्यास्थितस्य प्रभोः श्रीराम-ललायाः निःशुल्क-दर्शनाय निरन्तरं प्रेष्यन्ते।
योजनायाः १४ तमे चरणे जशपुर-जनपदस्य विभिन्नेभ्यः जनपद-पञ्चायतेभ्यः, नगर-पञ्चायतेभ्यः तथा सियानगुडी-क्षेत्रात् चयनिताः २०४ श्रद्धालवः बुधवासरे अयोध्यां प्रति प्रस्थापिताः। अस्मिन् अवसरे जनप्रतिनिधिभिः श्रद्धालुभ्यः हरित-ध्वजं प्रदर्श्य शुभयात्रायै प्रस्थानं कारितम्।
जशपुरे आयोजिते कार्यक्रमे जनपद-पञ्चायत्-अध्यक्षः गङ्गाराम-भगतः तथा नगरपालिकाध्यक्षः अरविन्द-भगतः बसयानं हरित-ध्वजं प्रदर्श्य प्रस्थापितवन्तौ। अस्मिन् अवसरे पिङ्की-गुप्ता, जनपद-पञ्चायत-सदस्या, जनपद-सदस्याः, अन्ये जनप्रतिनिधयः, गणमान्य-नागरिकाश्च उपस्थिताः आसन्। योजनायाः अन्तर्गतं अधुना यावत् जशपुर-जनपदस्य २,८५६ श्रद्धालवः अयोध्यां गत्वा प्रभोः श्रीरामललायाः दर्शनस्य लाभं प्राप्तवन्तः।
उल्लेखनीयं यत् श्रीरामलला-दर्शन-योजनायाः अन्तर्गतं श्रद्धालूनां आवागम-नेन आवासेन भोजनेन च सह सम्पूर्ण-यात्रा-व्ययं छत्तीसगढ-सर्वकारेण वह्यते। अनेन प्रदेशस्य अधिकाधिकाः श्रद्धालवः किमपि आर्थिक-भारं विना अयोध्या-धाम्नः पवित्रां यात्रां कर्तुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan