१४ सितम्बरतः प्रारभ्स्यते ४१ तमः चक्रधर-समारोहः, दशदिनपर्यन्तं नादयिष्यन्ति स्वर-तालस्य तरंग:
रायगढम्, ०५ अगस्तमासः (हि.स.)। कला-संस्कृतेः नगरी रायगढे ऐतिहासिकस्य चक्रधर-समारोहस्य प्रतीक्षा इदानीं समाप्तिं प्रति अग्रसरति। सङ्गीत-सम्राट् महाराज-चक्रधर-सिंहस्य स्मृतौ आयोजितः अयं भव्यः सांस्कृतिक-महा-कुम्भः अस्मिन् वर्षे स्वस्य ४१ तमे वर्षे प्
राजा चक्रधर का राजमहल


रायगढम्, ०५ अगस्तमासः (हि.स.)। कला-संस्कृतेः नगरी रायगढे ऐतिहासिकस्य चक्रधर-समारोहस्य प्रतीक्षा इदानीं समाप्तिं प्रति अग्रसरति। सङ्गीत-सम्राट् महाराज-चक्रधर-सिंहस्य स्मृतौ आयोजितः अयं भव्यः सांस्कृतिक-महा-कुम्भः अस्मिन् वर्षे स्वस्य ४१ तमे वर्षे प्रवेशं करिष्यति।

४१ तमः चक्रधर-समारोहः १४ सितम्बरतः २३ सितम्बर २०२६ पर्यन्तं रायगढस्य रामलीला-प्रांगणे आयोजयिष्यते। दश-दिनपर्यन्तं चलिष्यमाणे अस्मिन् आयोजने देशस्य विभिन्नेभ्यः भागेभ्यः प्रसिद्धाः कलाकाराः स्वीयाः प्रस्तुतयः प्रदास्यन्ति।

समारोहे अस्मिन् वर्षे दर्शकानां कृते अनेकाः विशेषाः प्रस्तुतयः द्रष्टुं लप्स्यन्ते। वाराणस्याः प्रसिद्धः ‘त्रिवेणी-सङ्गम’-समूहः तथा वृन्दावनस्य लोकप्रियः ‘माधवस्-रॉक-बैण्ड’ इति सङ्गीतसमूहः समारोहस्य प्रमुख-आकर्षणरूपेण भविष्यतः।

तदतिरिक्तं वाराणसी-घराणा इत्यस्य रुद्रशङ्कर-मिश्रेण प्रस्तुति:, केरले गुरोः कोट्टक्कल-नन्दकुमारन्-नायरस्य कथकलि-प्रस्तुतिः, कोलकातायाः बाउल-सङ्गीतम्, भुवनेश्वरस्य बी.-साहोः प्रस्तुति:, हुबली-नगरस्य शिवनारायण-हेगडेः यक्षगान-प्रस्तुतिः तथा प्रसिद्धस्य कलाकारस्य राजेन्द्र-गङ्गानी इत्यस्य मृदंग-वादनं दर्शकाणां कृते विशेष-आकर्षणस्य केन्द्राणि भविष्यन्ति।

उल्लेखनीयं यत् महाराज-चक्रधर-सिंहस्य कला-सङ्गीत-नृत्य-परम्परां अग्रे वर्धयितुं वर्ष १९८५ तमात् आरभ्य चक्रधर-समारोहस्य आयोजनं निरन्तरं क्रियते। आयोजन-समित्या अन्येषां ख्यातिनाम-कलाकाराणां चयनस्य प्रक्रिया अपि निरन्तरं प्रचलति।

Hindusthan Samachar / Divya Ranjan