Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 05 अगस्तमासः (हि.स.)।
श्रीलङ्कादेशस्य एकदिवसीययात्रायां गतः विदेशसचिवः विक्रममिसरी बुधवासरे राजधानी कोलम्बोनगरे श्रीलङ्कादेशस्य राष्ट्रपतिना अनुरकुमारदिसानायके इत्यनेन सह सममिलत्। उभयपक्षाभ्यां परस्परहितसम्बद्धविषयाणां तथा भारतस्य साहाय्येन श्रीलङ्कादेशे प्रवर्तमानानां प्रमुखविकासपरियोजनानां समीक्षा कृता। अस्मिन् अवसरे उभयदेशाभ्यां ३५ कोट्यधिकामेरिकीयरूप्यकमूल्यस्य भारतीयरूप्यमूल्यवर्गाधारितऋणसहायतायाः (आईएनआर आधारित लाइन ऑफ क्रेडिट) सम्बन्धिसमझौतापत्राणाम् आदानप्रदानम् अपि कृतम्।
श्रीलङ्कास्थितेन भारतीयउच्चायोगेन सामाजिकमाध्यममञ्चे एक्स इत्यत्र सूचितं यत् विदेशसचिवस्य विक्रममिसरी महोदयस्य राष्ट्रपतिना अनुरकुमारदिसानायके सह सम्पन्नायां भेंटायां द्विपक्षीयसहयोगस्य अधिकसुदृढीकरणाय तथा भारतस्य साहाय्येन श्रीलङ्कादेशे प्रवर्तमानानां प्रमुखविकासपरियोजनानां प्रगतेः समीक्षा कृता।
उपवेशनानन्तरम् उभयपक्षाभ्यां ३५ कोट्यधिकामेरिकीयरूप्यकमूल्यस्य भारतीयरूप्यमूल्यवर्गाधारितऋणसहायतासम्बद्धसमझौतापत्राणाम् आदानप्रदानम् अभवत्। एषा ऋणसहायता भारतस्य पक्षतः ‘दित्वाह’ नामकचक्रवातानन्तरं श्रीलङ्कादेशाय प्रदत्तस्य ४५ कोट्यधिकामेरिकीयरूप्यकपरिमितस्य पुनर्निर्माणसहायतापैकेजस्य अंशः अस्ति।
एतेषां ऋणसहायतासहमतिपत्राणां उपयोगः चक्रवातोत्तरपुनर्निर्माणकार्येषु, आधारभूतसंरचनाविकासे तथा आवश्यकसामग्रीणां क्रयसम्बद्धावश्यकतानां पूर्त्यर्थं क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani