Enter your Email Address to subscribe to our newsletters

-महिलाभिः ‘दिल्ली लक्ष्मी योजनायै’ मुख्यमंत्रिणे आभारो व्यक्तः
नवदिल्ली, 05 अगस्तमासः (हि.स.)।
मुख्यमन्त्री रेखा गुप्ता बुधवासरे मुख्यमन्त्री जनसेवासदने आयोजितायां जनसुनवाय्यां देहल्याः विविधप्रदेशेभ्यः समागतानां नागरिकाणां समस्याः अशृणोत्। तया सम्बद्धविभागानाम् अधिकारिणः सर्वेषां प्रकरणानां प्राधान्यक्रमेण समाधानं सुनिश्चितुं निर्देशाः प्रदत्ताः। मुख्यमन्त्री अवदत् यत् जनश्रवणता केवलं परिवादानां निस्तारणस्य माध्यमं नास्ति, अपितु जनविश्वासस्य सुशासनसंकल्पस्य च सुदृढीकरणस्य सशक्तं मञ्चम् अस्ति।
जनसुनवाय्यां निवृत्तिवेतनम्, शिक्षा, स्वास्थ्यं, आयुष्मान् भारत योजना, सम्पत्तिः, नियमितीकरणम् इत्यादीनि विविधानि जनहितसम्बद्धानि प्रकरणानि चर्चितानि। मुख्यमन्त्री सर्वेषां प्रकरणानां गम्भीरतया समीक्षा कृत्वा सम्बद्धाधिकारिभ्यः शीघ्रकार्यवाहीं, समयबद्धसमाधानं, प्रत्येकस्मै पात्रनागरिकाय शासकीययोजनानां लाभस्य सुनिश्चितीकरणं च कर्तुं निर्देशान् अददात्। एतदतिरिक्तं निवृत्तिवेतनसम्बद्धशिकायतासु मुख्यमन्त्री गम्भीरतया संज्ञानं गृहीत्वा अधिकारिभ्यः प्रत्येकस्य प्रकरणस्य परीक्षणं कृत्वा पात्रलाभार्थिभ्यः समयबद्धरूपेण निवृत्तिवेतनलाभस्य सुनिश्चितीकरणाय निर्देशान् प्रदत्तवती।
जनसुनवाय्यां बहुसंख्यया महिलाः अपि मुख्यमन्त्रिणः सन्निधिम् आगताः। अस्मिन्नवसरे अनेकाभिः महिलाभिः ‘दिल्ली लक्ष्मी योजना’ विषये मुख्यमन्त्रिण्यै कृतज्ञता प्रकटिता तथा उक्तं यत् एषा योजना महिलानाम् आर्थिकसशक्तीकरणस्य दिशि ऐतिहासिकी पहल अस्ति। सर्वकारेण महिलानां सम्मानः, आत्मनिर्भरता, आर्थिकसुरक्षा च सर्वोच्चप्राथमिकतया स्वीकृत्य नूतना आशा जनिता अस्ति।
मुख्यमन्त्री महिलाभ्यः धन्यवादं प्रदाय अवदत् यत् तस्याः सर्वकारः महिलानां सर्वाङ्गीणविकासाय ताः आत्मनिर्भराः कर्तुं च पूर्णप्रतिबद्धतया कार्यं करोति। तया उक्तं यत् जनसुनवाई केवलं शिकायतापञ्जीकरणस्य मञ्चः नास्ति, अपितु जनता-सर्वकारयोः मध्ये विश्वासस्य सुदृढः सेतुः अस्ति। दिल्लीसर्वकारस्य उद्देश्यं यत् प्रत्येकस्य नागरिकस्य समस्या पूर्णसंवेदनशीलतया, पारदर्शितया, समयबद्धरूपेण च श्रूयेत तथा तस्याः समाधानं क्रियेत। देहल्याः जनतानां सेवा एव अस्माकं सर्वोच्चप्राथमिकता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani